________________
५०८
प्रमाणवार्तिकस्ववृत्तिटीका (१।२७० )
सिद्धिरिति । तदप्युत्तरत्र निषेत्स्यामः । दूष्यः कुहेतुरन्योपि;
नैव कश्चिद् धर्मो यः समानजाती (य) मन्वेति । सर्व्वधर्माणामेतदवस्थत्वात् । सर्वस्थैर्यप्रतिज्ञायाश्च यथाभिधानं युक्तिविरोधादन्येपि नित्यहेतवो वाच्यदोषाः । बुद्धेरपुरुषाश्रये ।
बाधाऽभ्युपेतप्रत्यक्ष प्रतीतानुमितैः समं । (२७०)
यदि व्यक्तिर्बुद्धिस्तदानुपूर्वी वाक्यं तस्या अपौरुषेयत्वप्रसाधने । बुद्धीनां पुरुषगुणत्वाभ्युपगमात् । समयोऽस्य बाध्यते ।
प्रत्यक्षं खल्वे (? त्व) प्येतद् यदि ता बुद्धयः । पुरुषसंख्यातेभ्यः पुरुषगुणेभ्यो वा मनस्कारादिभ्यो भवन्तीति । न च कार्यता नामान्या भावाभावाविशेषाभ्यां ।
धनधर्मोस्त स्थैर्यसाधनो यः समानजातीयं स्थिरैकस्वभाम्वस्त्वन्वेति । कस्मात् (1) सर्वधर्माणामेतदवस्थानात् । अपरापरस्वभावहान्युत्पादस्वभावत्वात् । सर्वस्याः स्थैर्य प्रत्यभिज्ञायाश्च युक्तिविरोधादनुमानविरोधात् । कथं ( 1 ) यथाभिधानं । यथेह शास्त्रे क्षणिकत्वसाधनमभिहितमभिधास्यते च । तथा युक्तिविरोधात् कारणादन्येपि परपरिकल्पिताः स्थैर्यसाधनहेतवो वाच्यदोषाः ।
एवन्तावद् व्यक्तिक्रमो वाक्यं नेति प्रक्रम्य व्यक्तिस्त्रिविधा कल्पिता । शब्दस्यातिशयोत्पादनं । तदावरणविगमो ( 1 ) ज्ञानं चेति । तत्र नित्यत्वाच्छब्दस्य नातिशयोत्पादनं । आवरणाभावस्य चाकार्यत्वान्नाप्यावरणविगमो व्यक्तिरिति विकल्पद्वये प्रतिक्षिप्ते । ज्ञानं व्यक्तिरित्यवशिष्यते ।
(३) तदा च व्यक्ति 'मो वाक्यं । बुद्धीनामानुपूर्वी वाक्यमापद्यते । न चैतद् युक्तम् (1) अबुद्धिस्वभावत्वाद् वाक्यस्य । तथाप्यभ्युपगम्योच्यते । व्यक्तिक्रमस्य च वाक्यस्यापौरुषेयत्वे साध्ये बुद्धेरेवापौरुषेयत्वं साध्यं स्यात्। तत्र बुद्धेरपुरुषाश्रये पुरुषानाश्रयणे साध्ये प्रतिज्ञायां बाधा । कै: ( 1 ) 18ob अभ्युपेतप्रत्यक्षप्रतीतानुमितैः सममेककालं अभ्युपेतेनाभ्युपगतेन' । प्रत्यक्षप्रतीतेनानुमितेन च । तदानुपूर्वी बुद्ध्यनुपूर्वी वाक्यं । सा च नार्थान्तरं बुद्धिभ्य इति तस्या आनुपूर्व्या अपौरुषेय स्वप्रसाधने । बुद्धेरेवापौरुषेयत्वं साधितं स्यात् । तत्र च समयः सिद्धान्तोस्य मी मां स क स्य बाध्यते । किं कारणं (1) बुद्धीनां स्वसिद्धान्ते पुरुषगुणत्वेनाभ्युपगमात् ।
प्रत्यक्षबाधान्दर्शयन्नाह। प्रत्यक्षं खल्वप्येतद् यदि ता बुद्धयो मनस्कारा-दिभ्यो भवन्तीति । आदिग्रहणादिन्द्रियपरिग्रहः । कीदृशेभ्यो मनस्कारादिभ्यः