SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ५०७ यद्यपराणि ज्ञानानि प्राक् सन्निहितकारणानि पूर्वज्ञानवद् या (?जा) तान्येव स्युः। अजातानि तु कारणवैकल्यं सूचयन्ति। समर्थस्य जननादसमर्थस्यापि पुनः सामर्थ्याप्रतिलभात् (1) प्रतिलभे च स्थैर्यायोगात्। तदयं सत्प्रयोग इत्यपि जननमेव प्रयोक्तुः सामर्थ्यात्। स्वयं समर्थे तस्यानुपयोगात्। प्रयोग इत्यपीष्टसाधनसमर्थोत्पादनमेव (1) समानजातीयोपादानापेक्षमनपेक्षं वा वास्यादिप्रयोगवत्। कर्मादिप्रयोगवच्च कथ्यते। यो हि मन्यते। समक्षे प्रत्यभिज्ञानं प्रत्यक्षमेव (1) ततः प्रत्यक्षादेव स्थैर्य समर्थं प्रागपि जनयेत्। किं कारणं (1) समर्थस्य जननात्। अथासमर्थम् (1) पश्चादपि न जनयेत्। कस्माद् (1) असमर्थस्याप्यनाधेयातिशयत्वेन पुनः कुतश्चित् सामर्थ्य (1)प्रतिलम्भात्। अथ कुतश्चित् सामर्थ्य प्रतिलभेत। तदा । सामर्थ्यस्य प्रतिलम्भे वा स्थैर्यायोगात्। पूर्वासमर्थस्वभावहाने'रन्यस्य च समर्थ- 18oa स्योत्पादात्। तस्मात् क्रमभावीनि विज्ञानानि स्वविषयस्यापि क्रमं साधयन्तीति सर्वपदार्थानाम्भेदसिद्धरनित्यत्वं (1) स एवायमिति ज्ञानं तु सदशदर्शननिमित्तं । यत एवन्तस्मादयं सत्प्रयोग इत्यपि योयं द्वितीयो हेतुरुच्यते। तेनापि शब्दस्य जननमेवोच्यते। किं कारणं (1) प्रयोक्तुः सकाशाच्छब्दस्य सामर्थ्यात् । अभिमत कार्यकरणे शब्दस्य सामर्थ्यप्रतिलम्भादित्यर्थः। अन्यया यदि प्रयोक्तापारात् प्रागेव वास्यादिकं शब्दो वा स्वकार्ये समर्थ स्यात्तदा स्वयं सामर्थ्य तस्य प्रयोक्तुरनुपयोगात् पुरुषानपेक्षाणां स्वयमेव वास्यादीनां प्रवृत्तिः स्यात् । न च भवति। तस्मात् प्रयोग इत्यपि। इष्टस्याभिमतस्यार्थस्य च्छिदादेः साधनं सिद्धिस्तत्र समर्थस्वभावस्योत्पादन मेव वास्यादेः कथ्यते। किम्भूतमुत्पादनं (1) समानजातीयं सदृशमुपादानं पूर्व कारणभूतं क्षणमपेक्षत इति समानजातीयोपादानापेक्षं वास्यादिप्रयोगवत् । छिदादिषु प्रयुज्यमानानां वास्यादीनां समानजातीयपूर्वक्षणापेक्षणात्। उपादानानपेक्षं वा। कर्मादिप्रयोगवच्च । आदिशब्दाद् वीणादिशब्दपरिग्रहः । न हि कर्मादिषु प्रथमं प्रयुज्यमानेषु पूर्वसदृशक्षणापेक्षास्ति। योपि मन्यते (1) मा भूत् प्रत्यभिज्ञानमनुमानं व्यभिचारात् यत् पुरोवस्थिते वस्तुनि समक्षे प्रत्यभिज्ञानन्तत्प्रत्यक्षं प्रमाणं। ततः प्रत्यक्षादेव प्रमाणाद् भावानां स्थैर्यसिद्धिरिति। तदप्युत्तरत्र निषेत्स्यामः । अनया दिशा स्थैर्यसाधनायोपनीतः कुहेतुर्द्रष्टव्यः। यस्मान्नैवं कश्चिद् सा
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy