________________
प्रमाणवार्तिकस्ववृत्तिटीका (१।२६९) मिति विरुद्धमेव (1)
न(1) अभिन्नजन्मनः साधर्म्यविप्रलंभात्। भ्रान्त्या दीपाविषु भावाद (1) अभिन्नजन्मति केनावष्टम्भेनोच्यते। तस्यैवाभेदस्य सर्वत्र पौर्वापर्येण चिन्त्यत्वात् (1) तथा भेदस्यापीति चेत् । तेनैव संशयोस्तु। न च संशयितात् सिद्धिः। विवेकादर्शनादेकत्वमिति चेत्। न (1) ज्ञानपौर्वापर्येण सदसत्त्वसिद्धः। स्वभावविवेकसद्भावात्।
पूर्वम्बज्रादिषु स्वरूपं किं पश्चादपि तदेवाहोस्विदन्यदेव केवलं सादश्यादेकत्वविभ्रमः प्रदीपादिष्विवेति चिन्त्यमेतत्। यथा वज्रादिष्वभेदस्य चिन्त्यत्वन्तथा भेवस्यापि चिन्त्यत्वादिति चेत्। किम्भेदः पौर्वापर्येण प्रतिभासत इत्येतदपि निरूपणीयमेव।
तेनैवेत्याचार्यः। यतश्च नैकान्तेन भेदोऽभेदो वावधारयितुं शक्यस्तेनैवानबधारणेन संशयोस्तु। प्रत्यभिज्ञायमानेष्वर्थेषु भेदाभेदसंशयो भवतु। संशयादेव प्रत्यभिज्ञायमानत्वाद् भेदमिश्चय इति चेदाह। न च संशयितात् संशयविषयात् प्रत्यभिज्ञानलिङ्गाच्छब्दस्यैकत्वसिद्धिः।
पूर्वक्षणादुत्तरस्य क्षणस्य विवेकादर्शनाद् विवेकाप्रतिभासनात् पूर्वोत्तरकालेषु भावस्यैकत्वं सिद्धमिति चेत् ।
नेत्यादि प्रतिवचनं। तेनायमर्थों भावस्येदानीम्प्रतिभास एव क्षणप्रतिभासः। पूर्वापरकालसम्बन्धित्वेनाप्रतिभासनात्। क्षणस्य च स्वरूपेण प्रतिभास एव पूर्वादिक्षणाद् विवेकेन प्रतिभास स्सु मे रु(?) भिन्नप्रतिभासवान्न त्वविनाभावेन पूर्वादिक्षणात् प्रतिभासमानात्। केवलं स विवेको नावधार्यत इति । तदर्थमनुमानं प्रवर्तते। तदाह न वज्रादिष्वविवेकस्यादर्शनमस्ति। किं कारणं (1) पौर्वापर्येण वज्रादिज्ञानानां पूर्वापरभावेन वज्रादेः सवसत्त्वसिद्धः। तथा हि (1) वज्राद्यालम्बनमुत्तरं ज्ञानं प्रागभवत् स्वकारणविशेषस्य प्रागसत्त्वं साधयति । पश्चाद् भवच्च सत्त्वमित्येवं ज्ञानपौर्वापर्येण वज्रादिषु सदसत्त्वसिद्धेः। विवेकसद्भावाद् भेदसद्भावात्।
एतदेव स्फुटयन्नाह। यदीत्यादि। अपराण्युत्तरकालभावीनि ज्ञानानि प्राक् पूर्वज्ञानकाले सन्निहितकारणानि स्युः पूर्वज्ञानवज्जातान्येव स्युः (1) न चैवं। तस्मादजातानि तु तानि ज्ञानानि प्राक्। स्वकारणस्य वैकल्यं सूचयन्ति । अन्यथा यदि तेषां कारणं प्रागपि स्यात्। तत्समर्थम्वा भवेदसमर्थम्वा। यदि