________________
७. अपौरुषेय- चिन्ता
साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतं ॥
अनुदाहरणं सर्व्वभावानां क्षणभङ्गत: । ( २६९)
क्षणभंगनो हि सर्वे भावा विनाशस्याकारणत्वादित्युक्तं । वक्ष्यते चोत्पत्तिमंतश्च परतः । सत्ताया आकस्मिकत्वायोगात् । तन्नेदं प्रत्यभिज्ञानं सत्प्रयोगा- 36a दिकं क्वचिदन्वेति (1) स्थिरैकरूपे परापरस्वभावपरावृत्तिष्वेव दीपादिषु दृष्ट
५०५
प्रत्यभिजानन्तीति । सतः प्रयोगात् । यत् प्रयुज्यते तत् प्राक् सत् । यथा वास्यादि च्छिदायां । प्रयुज्यते च शब्दार्थप्रतिपादने तस्मात्सोपि प्रयोगात् प्राक् सन्निति । आदिशब्दात् परार्थमुच्चार्यमाणत्वादित्यादिपरिग्रहः । तदुक्तं (1) नित्यस्तु स्यादर्शनस्य परार्थत्वात् । दर्शनमुच्चारणं ( । ) तत्परार्थमर्थं प्रत्याययितुं । उच्चारितमात्र एव विनष्टे शब्दे । न ततोर्थम्प्रत्याययितुं शक्नुयादतो न परार्थमुच्चार्येतेति । अनुदाहरणमित्यदृष्टान्तं । न हि नित्यं किंचिदस्ति यत्रैतत्साधनम्वर्त्तेत । किं कारणं (1) सर्वभावानां क्षणभङ्गतः ।
एतदेव तावत् पदं विवृण्वन्नाह । क्षणभङ्गिनो हीत्यादि । विनाशस्याकरणादित्युक्तं प्राक् । वक्ष्यते च पश्चात् । विनाशद्वारेणानित्यतां प्रदर्श्य उत्पत्तिद्वारेणापि दर्शयन्नाह । उत्पत्तीत्यादि । परतः कारणादुत्पत्तिमन्तश्च भावास्ततोपि न नित्यः । परत उत्पद्यन्त इति कुत एतत् । सत्ताया आकस्मिकत्वायोगात् । आकस्मिकत्वे देशादिनियमो न स्यादिति प्रागेवोक्तं । तदिति तस्मात् प्रत्यभिज्ञानं सत्प्रयोगादिकं लिङ्गं ।" स्थिरैकरूपे वस्तुनि सपक्षभूते । न क्वचिदन्वेति । अपरापरेणान्येनान्येन स्वभावेन परावृत्तिरुत्पत्तिर्यथा प्रदीपादीनान्तेष्वेव प्रत्यभिज्ञानादिलिङ्गम्भेदेन व्याप्तन्दृष्टमिति विरुद्धमेव । न चात्र दीपत्वादिसामान्यनिमित्तं प्रत्यभिज्ञानं सामान्यस्य पूर्वमेव निषिद्धत्वात् ।
नेत्यादि परः । न विरुद्धं प्रत्यभिज्ञानं ( 1 ) किं कारणं । अभिन्नात् स्थिरैकरूफाज्जन्म यस्य तस्याभिनजन्मनः प्रत्यभिज्ञानस्य दीपादिषु भ्रान्त्या भावात् । 179b भ्रान्तिः कथमिति चेत् । साधर्म्यविप्रलम्भात् पूर्वोत्तरयोः क्षणयोर्यत्सादृश्यन्तेन विप्रलम्भाद् वञ्चितत्वात् । एतत्कथयति ( 1 ) अभ्रान्तं प्रत्यभिज्ञानं लिंगत्वेनोपात्तन्तच्च नैव प्रदीपादिषु वर्त्तते ।
अभिन्नजन्मेत्या चार्य: । केनावष्टम्भेन केन प्रमाणेनाभिन्नजन्म प्रत्यभिज्ञानमित्युच्यते । • नित्यस्य सामर्थ्याभा वात् । एतच्च प्रत्यक्षस्यापि प्रत्यभिज्ञानस्य दूषणन्द्रष्टव्यं। प्रत्यभिज्ञायमानस्याभेदेन प्रतिभासनादिति चेत् ( 1 ) न (1) तस्यैवाभेदस्य सर्वत्र वस्त्रोपलादिष्वपि पौर्वापर्येण चिन्त्यत्वात् । यथा
६४