________________
५०४ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६८)
यदि सर्वकारणसमानधर्माण्यपि कारणादिव्यञ्जकानि न किंचिदिदानी कार्य स्यात्। न चैतद् युक्तं वस्तुनोनाधेयविशेषत्वात् । आवरणाभावस्याकार्यत्वाद् वस्तुवदेव तज्ज्ञानस्य सिद्धत्वात् । ज्ञानप्रति कारकत्वे कस्यचित् तथाभूतानामन्येषामपि तथाभावप्रसंगेन सर्वस्य कार्य (ता) प्रसंगात्। .
तस्मादयं कारकाभिमतोर्थकलापो व्यक्तौ न क्रियायामिति व्यर्थ एव स्यात् । तथा चेवमनुपकार्योपकारकमनीहं जगत् स्यात्।
शब्दनित्यत्वे च।
(1) सर्वकारणसमानधर्माण्यपि सर्वे कारणानां समाना धर्माः येषां करणानामिति विग्रहः। तदा न किञ्चिद् घटादिकमपीदानी कस्यचित् कुलालादेः कार्य स्याच्छब्देनाविशेषात् । सर्वस्य व्यङग्यत्वमिष्टमिति चेत् (1) न चैतन् युक्तं । किं कारणं (1) सर्वकारकाणां व्यञ्जकत्वेनाभिमतानामानर्थक्यप्रसङ्गात्। तथा
हि व्यञ्जकानां त्रयो विकल्पाः। व्यङग्ये वस्तुन्यतिशयस्य वाऽवरणाभावस्य वा 179a ज्ञानस्य वा करणाद् व्यञ्जकः स्यादिति।
न तावद् व्यङग्यस्यातिशयकरणाद् व्यञ्जकः। किं कारणम् (1) वस्तुनोवस्थितरूपस्यानाधेयातिशयत्वात्। नाप्यावरणविगमकरणात्। आवरणाभावस्याकार्यत्वात्। नापि ज्ञानकरणाद् व्यञ्जकः। किं कारणं। वस्तुवदेव तद्विषयस्यापि ज्ञानस्य सत्कार्यवादिदर्शने सिद्धत्वात् । अथासदेव ज्ञानं क्रियते। तदा ज्ञानप्रति कारकत्वे कस्यचिदिष्यमाणे। तथाभूतानां ज्ञानस्य कार' कैस्तुल्यधर्माणामन्येषामपि कुलालादीनान्तथाभावप्रसंगेन। घटादीन् प्रति कारकत्वप्रसंगेन सर्वस्य वस्तुनः कार्यताप्रसंगात्। विशेषो वा वाच्यो येन ज्ञानं प्रति कारकत्वं न घटादीन् प्रति। न चान्यो व्यक्तेः प्रकारः सम्भवति।
तस्मादयं कारकाभिमतोर्थकलापो घटादेः कस्यचिदपि न व्यक्तावुपयुज्यते। वस्तुनो नाधेयविशेषत्वादिना व्यक्तेनिषिद्धत्वात्। नापि क्रियायामुपयुज्यते । कार्यकत्वानभ्युपगमादिति व्यर्थ एव स्यात्।
तथा चेति कारकाणां वैकल्ये सति। इदं जगनिरीहं निर्व्यापारं स्यात् । किं भूतम् (1) अनुपकार्योपकारकं । न विद्यते उपकार्यमुपकारकं च यस्मिन्निति विग्रहः।
किञ्च (1) शब्दनित्यत्वे साध्ये (1) साधनं प्रत्यभिज्ञानमप्रयोगादि यन्मतमिष्टं। यथा नित्यः शब्द एकत्वेन प्रत्यभिज्ञायमानत्वात्। तदुक्तं (1) संख्याभावात् । अष्टकृत्वो गोशब्द उच्चरित इति हि वदन्ति। नाष्टौ गोशब्दा इत्यनेनावगम्यते