________________
७. अपौरुषेय चिन्ता
अभावे करणग्राम सामर्थ्य किं न तद्भवेत् । (२६७)
न ह्यावरणस्याकिंचित्कराणि करणानि समर्थानि नाम । विगमश्चाभावो न चाभावः कार्यं इति निवेदितमेतत् । नापि शब्दस्य नित्यस्य किंचिदावरण (म) - सामर्थ्यादित्युक्तं । तस्मान्नावरणे करणोपक्षेपः (1) नाप्येषामसामथ्यं तद्वयापाराभावे शब्दानुपलब्धेः ( 1 ) अतो युक्तमेते यच्छब्दान् कुर्युः ( 1 )
अन्यथा ।
शब्दाविशेषादन्येषामपि व्यक्ति: प्रसज्यत ।। तथाभ्युपगमे सर्व्वकारणानां निरर्थता । (२६८)
५०३
सा व्यक्तिः कथं क्रियते । यस्मादावरणविगमोऽभावस्तस्मिन्नभावे कथंचिदप्य कार्ये करणग्रामस्य करणसङ्घातस्य सामथ्यं किन्न तद् भवेत् ( 1 ) नैवेति यावत् ।
न हीत्यादिना व्याचष्टे । एतदाह ( 1 ) आवरणस्वरूपे निष्पन्नेऽकिंचित्कराण्येव करणानि न हि समर्थानि भवन्ति । आवरणविगमेपि न तेषां सामर्थ्यं । यस्माद् विगमश्चाभावो न चाभावः कार्य इति निवेदितमेतत् सामर्थ्यचिन्तायां ।
न शब्दस्य
अभ्युपगम्य चैतदुक्तं । तदेव नास्तीत्याह । नापीत्यादि । नित्यस्यानाधेयातिशयत्वात् किञ्चिदावरणमस्ति येनावरणविगमो व्यक्तिः स्यात् । किं कारणं ( 1 ) तस्यावरणस्य नित्यवस्तुन्यसामर्थ्यादित्यप्युक्तं ।
यत एवन्तस्मान्नावरणे करणानामुपक्षेपः । करणान्यावरणविगमं शब्दस्य कुर्वन्तीत्येतन्नोपन्यसनीयमित्यर्थः ।
नाप्येवं कारणानां शब्दप्रत्यसामर्थ्यमेव । किं कारणं ( 1 ) तद्व्यापाराभावे करणानां व्यापाराभावे शब्दानुपलब्ध: (1) अतो युक्तमेते करणव्यापारा यच्छब्दान् कुर्युः ( 1 )
अन्यथा यदि करणानि न कारकाणि किन्तु व्यञ्जकान्येव । तदा शब्दाविशेषादन्येषामपि घटादीनां व्यक्तिः कुलालादिभ्यः प्रसज्यते ।
अथ पुनस्तेपि घटादयो व्यज्यन्त एव कुलालादिभिरितीष्यते । तदा तथाभ्युपगमे सर्वकारणानान्निरर्थता ।
तथा हि (i) व्यङ्ग्ये वस्तुन्यतिशयस्य कारको वाऽवरणाभावस्य कारको वा ज्ञानस्य वा कारको व्यञ्जकः स्यात् । अतिशयादेर्व्यक्तिस्वरूपस्य चाकार्यत्वात् । सर्वेषां व्यक्तिकारकाणां स्वरूपकारकाणां च निरर्थता ।
यदीत्यादिना व्याख्यानं । यदि शब्दस्य करणानि व्यञ्जकानि कीदृशानि