________________
५०२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६७) कस्यचिद् व्यञ्जकान्तराभावात्। तत्कारणानि तेषां व्यञ्जकानि स्युः। तस्मान्न व्यक्तिः शब्दस्य।
भवन्ती वा करणेभ्योतिशयवत्ता वा शब्दस्य व्यक्तिः(1) आवरणविगमो विज्ञानं वा गत्यन्तराभावात्। तत्र नातिशयोत्पत्तिरनित्यताप्रसंगात् (1) तस्याः पूर्वापररूपहान्यपजननलक्षणत्वाद् (1) अथ (--)
तद्रूपावरणानां च.व्यक्तिस्ते विगमा यदि ॥
यस्मात् तत्रापि शब्दे इन्द्रिययोग्यदेशतादिभ्यः श्रोत्रेन्द्रियाच्छोत्रयोग्यदेशावस्थानात् । आदिशब्दात् मनस्काराच्च । करणानामतिशयात्। अतिशय एव कथमिति चेदाह । घटादीत्यादि। ह्यर्थे चशब्दः । घटादेर्ये कारकाः कुलालादयः समग्रास्तेषां यो धर्मो नियमेन स्वकार्यारम्भकत्वन्तस्य करणेषु दृष्टः। तान्यपि हि व्यापृतानि शब्दं नियमेन जनयन्ति। तस्मात् तान्यपि कुलालादिवत् कारकाण्येव।
यदि च शब्दस्य व्यञ्जकान्तराभावात् करणानि व्यञ्जकानीष्यन्ते। तदा तस्यैव व्यञ्जकस्य प्रदीपादेविषयान्तरस्य च कस्यचिदिति रसादेर्व्यञ्जकान्तरम्प्रदीपादिर्नास्ति। ततो व्यञ्जकान्ताराभावात । तत्कारणानि प्रदीपादिकारणानि चैषां प्रदीपादीनां व्यञ्जकानि स्युः ।
यत एवन्तस्मान्न व्यक्तिः शब्दस्य करणेभ्यः किन्तूत्पत्तिरेव। भवन्ती वा करणेभ्यः सकाशाद् व्यक्तिस्त्रिधा भवेत्। (१) पूर्वावस्थात्यागेनातिशयवत्ता वा शब्दस्य व्यक्तिर्भवेत्। (२) उपलम्भावरणविगमो वा। (३) शब्दालम्बनं (वि)ज्ञानम्वा व्यक्तिः। प्रकारत्रयव्यतिरेकेण गत्यन्तराभावात् ।
(१) तत्र नातिशयोत्पत्तिः शब्दस्य व्यक्तिरनित्यताप्रसङ्गात्। भवत्वति178b शयोत्पत्तिर नित्यत्वन्तु कथमिति चेदाह। तस्या अतिशयोत्पत्तेः पूर्वरूपस्य या हानिरपरस्य पाश्चात्यस्य रूपस्य य (द्) उपजननं तल्लक्षणत्वात् ।
(२) द्वितीयपक्षमाह। अथेत्यादि। तस्य शब्दस्य यज्जनकं रूपन्तस्योपलम्भप्रतिघातीनि स्तिमितवायवीयावयवसंयोगरूपाण्यावरणानि (1) तेषां विगमः प्रयत्नप्रेरितेन वायना वियोगः। स यदि शब्दस्य व्यक्तिस्ते तव मी मां स क स्य मता। तदुक्तं। "प्रयत्नाभिहतो वायुः कोष्ठयो यातीत्यसंशयं । स संयोगविभागौ च ताल्वादेरनुवर्तते ॥ वेगवत्वाच्च सोवश्यं यावद्वेगं प्रतिष्ठते। तस्यात्मावयवानाञ्च स्तिमितेन च वायुना। संयोगाश्च वियोगाश्च जायन्ते गमनाद ध्रुवमि"ति ॥ (श्लो० शब्द १२२-२४)