________________
५०१
७. अपौरुषेय-चिन्ता व्यापिनित्यत्वादुपलंभ इति चेत् (1) क इदानी घटादिषु समाश्वासः। तेषान्तथाऽनिष्टेरिति चेत् (1) शब्दः किमिष्टः। तत्समानधर्मा (1) न चास्य कश्चिदतिशय इत्युक्तं। प्रतिषिद्धे च व्यापिनित्यते।
घटादीनां व्यञ्जकान्तरसंभवाददोषः। प्रकासो (? शो) ह्येषां व्यञ्जकः सिद्धः (1) कुलालादीनां व्यंजकत्वे तादृशा एव स्फुरंति (अति) शेरते च ततो व्यञ्जकातिशयात् कारका एव उपकारकस्य गत्यन्तराभावात्।
तदेतत शब्देष्वपि तुल्यं । तत्रापीन्द्रिययोग्यदेशतादिभ्यः करणानामतिशयात (1) घटादिकारकधर्मस्य च करणेषु दृष्टेः। तस्यैव प्रदीपादेविषयान्तरस्य च
अथ पुनः करणं शब्दस्याकर्त्त । तस्याकर्तुः करणस्य व्यापारेण तत्सिद्ध्ययोगात्। शब्दस्य सिद्ध्ययोगात् । व्यापिनः शब्दा नित्याश्च । ततो व्यापिनित्यत्वाच्छब्दानां । व्यञ्जकस्य करणस्य व्यापारात् सर्वत्रोपलब्धिः। घटादयस्तु न व्यापिनो नापि नित्याः। तेन ते व्यञ्जकव्यापारेण नावश्यमपलभ्यन्त इति।
याद्येवं क इदानीं घटादिषु समाश्वासः। निश्चयः। यथा ते न नित्या नापि 178a व्यापिन इति। यावता तेपि नित्या व्यापिनश्च भवन्तु। कथं सर्वदा नोपलभ्यन्त इति चेत् । एतच्छब्देष्वपि तुल्यं । यत्तत्र प्रतिविधानं तद् घटादिष्वपि भविष्यति। तेषां घटादीनान्तथा व्यापिनित्यत्वेनानिष्टेरिति चेत् । शब्दो व्यापिनित्यत्वेन किमिष्टः (।) कस्मादिष्टस्तत्समानधर्मा ।1 घटादिसमानधर्मा। प्रतिषिद्धे च व्यापिनित्यत्वे प्रागिति यत्किञ्चिदेतत् ।
घटादीनामित्यादि परः। कारकव्यतिरेकेण व्यञ्जकान्तरसभावाददोषः। शब्देन तुल्यत्वप्रसङ्गदोषो नास्ति। व्यञ्जकान्तरमेव दर्शयन्नाह। प्रकाशो हीत्यादि। प्रकाशो ह्येषां घटादीनां व्यञ्जको लोके सिद्धो न कुलालादयः। कुलालादीनां व्यञ्जकत्वे। ते कुलालादयस्तादृशा एव स्युः (1) यथा प्रदीपादयो न नियमेन घटमुपलम्भयन्ति। क्वचित् प्रकाशेपि घटस्याभावात्। तथा कुलालादयोपि भवेयुः (1) न चैवम् (1) अतिशेरते च कुलालादयः। कुलालादिव्यापारे सर्वदा घटादेर्भावात्। ततो व्यञ्जकातिशयात् । व्यञ्जकाद् भेदेन वृत्तेः । कारका एव कुलालादयः। किं कारणम् (1) उपकारकस्य गत्यन्तराभावात् । कारक व्यञ्जकत्वव्यतिरेकेण प्रकारान्तराभावात् । तत्र व्यञ्जकत्वे निषिद्ध पारिशेष्यात् कारकत्वं कुलालादीनां (1) नैवं शब्दस्य करणमुक्त्वान्यद् व्यञ्जकान्तरं सिद्धं येन करणमेव शब्दस्य कारकं कल्प्येत। तस्माद् घटादिवैलक्षण्याच्छब्दो व्यङग्य एव।
तदित्यादि सिद्धान्तवादी। तदेतद् व्यञ्जकान्तरसम्भवनं शब्देपि तुल्यं ।