SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०० प्रमाणवात्तिकस्ववृत्तिटीका (१।२६६) करणभेदं च भिन्नस्वभावः शब्दः श्रुतौ निविशमानो यदैकः साध्यते किन्न घटादयः। तत्रापि शक्यमेवं व्यञ्जकभेदात् प्रतिभासभेद इति प्रत्यवस्थातुं (1) करणानां समग्राणां व्यापारादुपलब्धितः ।। नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् । (२६६) । न हि कदाचिदव्याप्तेषु करणेषु शब्दानुपलब्धिर्न चावश्यं व्यञ्जकव्यापारो र्थमुपलभयति (1) क्वचित् प्रकासे (? शे) पि घटाद्यनुपलब्धः (1) सेयं नियमेनोपलब्धिस्तव्यापाराच्छब्दस्य तदुद्भवे स्यादकर्तुापारेपि तत्सिद्ध्ययोगात् (1) नामसाम्यादित्ययं हेतुरनैकान्तिक इत्याह। यावदित्यादि। तथाभिधेयतेति । अकारप्रतीत्ये (? ति) रकारप्रतीतिरित्येवं नामसाम्येनाभिधेयता। अर्थाभेदेन विषयैकत्वेन व्याप्त्या न साध्यते तावत सन्दिग्धो व्यतिरेकः। नामसाम्यं च स्याद भेदश्चेति। किञ्च। प्रतिकरणभेदं पुरुषभेदेन करणभेदं प्रति भिन्नस्वभावः शब्दः श्रुतौ श्रोत्रविज्ञाने निविशमानः समारोहन यदेकः साध्यते किन्न घटादयोप्येकरूपास्साध्यन्ते। तेपि साध्यन्तां। विशेषोपि वा वाच्यः।। एकत्वेपि शब्दस्य व्यञ्जकभेदात् प्रतिभासभेद इति चेदाह। तत्रापीत्यादि। तत्रापि भिन्ने घटादौ शक्यमेवं व्यञ्जकभेदात् प्रतिभासभेद इति प्रत्यवस्थातुं (1) (२६६) किञ्च (1) कारणानां समग्राणां व्यापारात् परिस्पन्दादिलक्षणानियमेन शब्दस्यैव (उप)लब्धितः कारणात् कार्यत्वम्प्राप्तं। किं कारणं (1) व्यञ्जके हेतौ तबसम्भवात् । नियमेन व्यङ्ग्यस्योपलम्भासम्भवात् । न हीत्यादिना व्याचष्टेः। व्यापृतेषु करणेषु न हि कदाचिच्छब्दानुपलब्धिः किन्तूपलब्धिरेव। न चावश्यं व्यञ्जकव्यापारो र्थमुपलम्भयति ग्राहयति। किं कारणं । क्वचिद् घटादिशून्ये देशे प्रकाशे प्रदीपादिलक्षणे सत्यपि घटाद्यनुपलब्धः। तस्मादविकलविज्ञानोत्पादसहकारिकारणस्य पुंसः। सेयं शब्दस्य तद्व्यापारात् कारणव्यापारानियमेनोपलब्धिस्तदुद्भवे। करणव्यापाराच्छब्दस्योत्पत्तौ सत्यां स्यात् । ततश्च जन्य एव शब्दो न व्यङ्ग्यः।। ननु पूर्व जननमात्रेण कारकं ज्ञानजननयोग्यत्वेनोत्पादकन्तु व्यञ्जकमेवेत्युक्तं। तेन ताल्वादीनां व्यञ्जकत्वमेव युक्तं । नैष दोषो यतः (1) कार्यमात्रमभिप्रेत्य जननमात्रेण कारकं (1) ज्ञानजननयोग्यत्वेन तु व्यञ्जक इत्युक्तं। न तु दृश्यकार्यापेक्षया। तथा ह्यविकलसहकारिकारणस्य पुंसः प्रदीपादिजनको नियमेन प्रदीपादेरुपलम्भकः कार को न व्यञ्जक इत्यदोषः ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy