SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४६६ भावभेदेपि। नामसाम्याद् एकविषयत्वमप्ययुक्तं। घटादिष्वपि प्रसंगात्। तत्र दष्टविरोधादसाधनत्वमिति चेद (1) इहापि विरोधाभावः केन सिद्धः। यावत तथाभिधेयतार्थाभेदेन व्याप्तो न' साध्यते तावत् सन्दिग्धो व्यतिरेकः। प्रति- 35b तदपास्तं। यतो ध्वनिविशेष एव वर्ण उच्यते। तेन द्रतोच्चारिता ध्वनिविशेषा द्रुता गव्यक्तिरुच्यते। मध्योच्चारिता मध्यगव्यक्तिः (1) विलम्बितोच्चारिता ध्वनिविशेषा विलम्बिता गव्यक्तिः (1) न तु व्यञ्जकेभ्यो ध्वनिभ्योन्यो गकारः प्रतिभासते (1) गकारो गकार इति तेषु नामसाम्यमेव केवलं प्रतीयते। तथा ह्रस्वदीर्घप्लुतादिषु नैकाकारः। यतो ध्वनिविशेषा एव मात्राकालं प्रयुज्यमाना ह्रस्वोकारो भवति। तथापरे ध्वनिविशेषा द्विमात्राकालं प्रयुज्यमाना दीर्घ आकारो भवति (1) त्रिमात्राकालं प्रयुज्यमाना ध्वनिविशेषाः प्लुतो भवति। तेन ह्रस्वदीघ्रप्लुतानां स्वभावभेद एव प्रतिभासते। न त्वकारोऽभिन्नस्तेषु प्रतिभासते। अकार एव तु मात्रादिकालमुच्चार्यमाणो यथाक्रम ह्रस्वदीर्घप्लुताः प्रतीयन्त इति शब्दमात्रमेव केवलं । तेन यदुच्यते। "स्वतो ह्रस्वादिभेदस्तु नित्यवादे विरुध्यते। सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयं । तस्मादुच्चारणन्तस्य मात्राकालं प्रतीयतां। द्विमात्रम्वा त्रिमात्रम्वा न शब्दो मात्रिकः स्वयमि"ति' (1) तदपि निरस्तं। ह्रस्वदीर्घप्लुतेष्वकारोकार इत्यनुयायिनोर्ज्ञानाभिधानयोरप्रवृत्तेः । अथापि स्यात् (1) पूर्वोत्तरकाल भाविन्योः प्रतीत्यो मसाम्यादेकविषयत्वमिति (1) ____ अत आह। प्रतीत्यादि। पूर्वोत्तरयोरकारप्रतीत्योः प्रतिभासभेदः पूर्वोत्तररूपतया। स्वभावभेदो द्रुतमध्यविलम्वितादिभेदेन । तस्मिन् प्रतीतिप्रतिभासस्वभावभेदेपि। अकारप्रतीतिरकारप्रतीतिरित्येवं नामसाम्यादेकविषयत्वमयुक्तं । किं कारणं (1) घटादिष्वपि' प्रसङ्गात् । या पूर्वा घटप्रतीतिर्या च पश्चाद् अन्यघटप्रतीतिस्त- 177b योरपि घटप्रतीतिर्घटप्रतीतिरिति नामसाम्यादेकविषयत्वं स्यात् (।) तथा चैको घट: सर्वत्र प्राप्नोति । तत्र घटादावेकत्वसाधने दृष्टविरोधो घटादीनामनेकत्वस्य दृष्टत्वात्। तस्मात् तत्रासाधनमेकत्वस्येति चेत् । इहापि वर्णेष्वप्येकत्वसाधने दष्टविरोधाभावः केन प्रमाणेन सिद्धः। अत्रापि कारणानां प्रतिपूरुषं भेदेन भेदः सिद्ध एव (1) लूनपुनर्जातेषु केशेष्विव सादृश्यादेकत्वाध्यवसाय इति यावत् । 1Sloka-Sphotavada 50,51
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy