________________
४९८
प्रमाणवात्तिकस्ववृत्तिटीका (१।२६५)
पुरुषो वृद्धाद्यवस्थायां प्रत्यभिज्ञायत इति कथमतीतज्ञानकर्मतापरोक्षते एकाधिकरणे प्रतिभासेते। कथं वाऽपरोक्ष एवार्थोतीतज्ञानविशिष्टतया स्मृतौ प्रतिभासत इत्याधुच्यते।
यत्राप्यनिमिषदृष्टेश्चिरतरकालं पश्यतोनुवृत्तावसायस्तत्रापीदानीन्तनप्रत्यक्षज्ञानसम्बन्धेनार्थस्यापरोक्षतोत्पद्यते (1) अतीतज्ञानाभावेनातीतज्ञानकर्मतायाश्चेदानीमभाव एव विनाश इति कथमुच्यते (।) उत्पत्तिविनाशरहितानुवृत्तावसाय एव बाधकः क्षणिकत्वानुमानस्येति। ___ यदप्युच्यते (1) यः प्रतिक्षणमन्यत्वम्वदति तस्य चायम्बाधः प्रत्यभिज्ञानमात्रेणानन्यत्त्वे तु विनष्टस्यापि तत्त्वावगमात्। मृतप्रत्यभिज्ञायामिवेति (1)
तदपि निरस्तं। अनन्यत्वस्यैवाभावात्। नापि विनष्टाविनष्टयोरनन्यत्वं विरोधात्। न च तत्त्वावगमान्यथानुपपत्यानन्यत्वं सादृश्येनापि तत्त्वावगमस्य सम्भवात्। स इत्यङशश्च न प्रत्यक्षोऽसन्निहितविषयत्वात्। स्मरणरूपत्वे
चास्य न पूर्वदृष्टार्थग्राहित्वं स्पष्टप्रतिभासाभावात्। दृष्टार्थाध्यवसायकत्वेन 177a तु स्मृति'रूपत्वे भ्रान्तत्वं (1) स्व (T) काराभेदेन दृष्टार्थाध्यवसायात् । अयमिति
चांशः प्रत्यक्ष इष्यते (।) स्मरणप्रत्यक्षयोश्चैकत्वम्विरुध्यते। तस्मात् पूर्वविज्ञानविषयत्वरहिते पुरोवस्थितेर्थे सादृश्येन पूर्वज्ञानविषयत्वमारोप्य स एवायमिति मानसं ज्ञानं गृह णाति। आरोपबलेन चातीतज्ञानकर्मताऽपरोक्षते एकाधिकरणे प्रतिभासेते। मरीचिकायां . जलप्रत्यभिज्ञान इव। आरोपाभावे त्वेते भिन्नाधिकरणे एव प्रतिभासेते। जलस्मरणमरीचिकाग्रहणयोरिव।
तस्मात् स्थितमेतद् (1) भ्रान्तत्वादप्रत्यक्षत्वाच्च न प्रत्यभिज्ञात: क्षणिकत्वानुमानबाधेति। तेन पूर्वोत्तरे अकारप्रतीती भिन्नविषये एव। तथा द्रुतमध्यबिलम्बितानाङगकारादिप्रतिपत्तीनां भिन्नविषयत्वं । द्रुतादिभेदभिन्नगकारालम्बनत्वात्। गकार एव द्रुतो गकार एव विलम्वितं इति गकारैकत्वप्रतीतिस्तु सादृश्यनिमित्तैव। तेन यदुच्यते।
"न हि दूतादिभेदेपि निष्पन्ना संप्रतीयते। गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा। तेनैकत्वेन वर्णस्य बुद्धिरेकोपजायते । विशेषबुद्धिसद्भावो भवेद् व्यञ्जकभेदत"इति (1)
1 Kumārila.