________________
७. अपौरुषेय-चिन्ता
४६७
तस्यैकस्य शक्तस्य कारणस्य सहकार्यप्रतीक्षणात्। ततश्च युक्तिविरुद्धं पूर्वापरयोः प्रतीत्योरेक विषयत्वं।
एतेन च सर्वेणोत्तराकारप्रतीते पूर्वाकारप्रतीत्यभिन्नविषयत्वे साध्येनुमानबाधितत्वं प्रतिज्ञाया उक्तं। अनुमानन्त्वीदृशं। यत् क्रमभावि तन्नैकविषयं । यथा क्रमेण भवच्चक्षुःश्रोत्रविज्ञानं (1) क्रमभाविन्यौ च पूर्वोत्तरे अकारप्रतीती। एकविषयत्वमक्रमभावित्वेन व्याप्तन्तद्विरुद्धं च क्रमभावित्वमिति व्यापकविरुद्धमेव ।
नन्वत्र प्रत्यक्षप्रत्यभिज्ञाबाधितत्वात् प्रतिज्ञाया अनुमानस्योत्थानमेव नास्तीति चेत् (1) ___ न । स एवायमिति ज्ञानस्य पूर्वापरकालसम्बन्धिविषयत्वेन भेदविषयत्वात्। अन्यदेव हि पूर्वकालसम्बन्धित्वमन्यदेव चापरकालसम्बन्धित्वं। अन्यथा पूर्वकालसम्बन्धित्वाद्वाऽपरकालसम्बन्धित्वस्याभेदेधुना भावाद् भावस्य प्रतिभासो न स्यात्। स एवेति च' ज्ञानस्योत्पत्तिः स्यात् (1) न स एवायमिति । अपर- 176b कालसम्बन्धित्वाद्वा पूर्वकालसम्बन्धित्वस्याभेदे पूर्वमस्य प्रतिभासो न स्याद् (1) अयमेवेति च ज्ञानस्योत्पत्तिः स्यात् (1) न स एवायमिति।
तस्माद् यत्पूर्वकालसम्बन्धित्वन्तदपरकालसम्बन्धित्वन्न भवति । यच्चापरकालसम्बन्धित्वन्तत्पूर्वकालसम्बन्धित्वं न भवतीति पूर्वापरकालसम्बन्धिविषयत्वेन भेदविषयत्वात् कथम्प्रत्यभिज्ञातः प्रतिज्ञाबाधा। ।।
उम्बे क स्त्वाह। “यदि स एवायमित्येकानुभवस्तथाप्ययमतीतंज्ञानकर्मताऽपरोक्षते एकाधिकरणे गलन सम्वेद्यते। अथापि प्रत्ययद्वयमिदं ग्रहणस्मरणरूपं। तथापि घटस्मरणपटग्रहणयोनिरन्तरोत्पन्नयोविलक्षणमिदम्परस्परविषयत्वेन प्रतिभासनात्। अपरोक्ष एव ह्यर्थोतीतज्ञानविशिष्टतथ्या स्मृतौ प्रतिभासते। अतीतज्ञानविषयश्चापरोक्षतया प्रत्यक्षे। तदहं स्मराम्येतदिति प्रतिभासनात् । तस्मादनिमिषि (त) दृष्टे: पुरुषस्य यदुत्पत्तिविनाशरहितानुवृत्तावसायः स एव बाधकः क्षणभङ्गसाधकस्यानुमानस्ये"ति। [मीमामालो नहो
तदयुक्तम् (1) उत्तरोत्तरप्रत्यक्षाणां यथाक्रममुत्तरोत्तरवस्त्ववस्थाभेदविषयत्वेन स एवायमिति तत्त्वारोप स्य भ्रान्तत्वात्। तथा हि प्रथमदर्शिनः प्रत्यक्षे यथाऽपरोक्षावस्था प्रतिभासते नातीतज्ञानविषयावस्था। तथा भूयो दर्शिनोपि। इदानीन्तनेन च रूपेण वस्त्ववस्थितन्न प्राक्तनेन। अवस्थिते. च रूपे प्राक्तनरूपस्यानवस्थानमेव विनाशः। यथा वृद्धावस्थायाम्बालरूपस्य प्राक्तनञ्च रूपमतीतज्ञानकर्म। इदानीन्तनं च रूपम परोक्षमथ, च बालाद्यवस्थायां दुष्ट: