________________
.४६६ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६५) वचने भिन्नविषयत्वस्याप्यविरोधः। एकविषययोश्च प्रतीत्योः पूर्वापरभावायोगात्। सन्निहितासन्निहितकारणत्वेनोत्पादानुत्पादात्। सन्निधानेप्यनुत्पन्नस्यातत्कारणत्वात्। तयोभिन्नाखिलकारणत्वं। तत्रैकाभेदेपि शक्तस्याप्रतीक्षणात्। युक्तिविरुद्धं पूर्वपरयोः प्रतीत्योरेकविषयत्वं (1) प्रतीतिप्रतिभासस्व
हेतुः । तद्वदिति पूर्वाकारप्रतीतिवदित्यादि। आदिशब्दाद् द्रुतमध्यविलम्बितावस्थायामक एव गकारादिवर्णस्स एवायं गकारादिवर्णो द्रुतादिभेदभिन्न इति प्रतीतेः
(1) प्रयोगस्तु या या अकारप्रतीतिः सा पूर्वाकारप्रतीत्यभिन्नविषया। तद्यथा 176a पूर्व अकारप्रतीतिः। अकारप्रतीतिश्चोत्तराप्यकारप्रतीतिरिति स्वभावहेतुप्रति
रूपकः। तदपि साधनं पूर्वापरयोरकारस्वलक्षणयोरभेदसाधने न समर्थ । तथा ह्यकारप्रतीतेरित्ययं हेतुर्विशेषेण वा स्यात् पूर्वाकारप्रतीतिरूपत्वादिति। सामान्येन वा स्यादकारप्रतीतिमात्रत्वादिति। आद्ये पक्षे हेतुरसिद्धः । किं कारणं (1) तत्स्वभावत्वासिद्धः पूर्वाकारप्रतीतित्वासिद्धेः। यद्वा विशेषेण वा हेतुरुत्तराकारप्रतीतिरूपत्वादिति।
तदपि न साधनं । किंङ्कारणं (1) तत्स्वभावत्वासिद्धेः साध्यस्वभावत्वासिद्धेः। अनैकान्तिकत्वं व्याप्तेरसिद्धत्वादित्यर्थः।
अथ सामान्येन लिङ्गस्य वचने भिन्नविषयत्वस्याप्यविरोधः। अकारप्रतीतिश्च स्यात् पूर्वाकारप्रतीतिविषयाद् भिन्नविषया चेति को विरोधः । ... अन्ये त्वकारप्रतीतित्वं सामान्यं यथा तयोः प्रतीत्योरेवमकारविषयत्वमविरुद्धमिति व्याचक्षते।
किञ्च। एकविषययोश्च प्रतीत्योः पूर्वव्यवस्थितैकाकारविषययोः पूर्वोत्तरकालभाविन्योः प्रतीत्योः पूर्वापरभावः प्राक् पश्चाद्भावे विरुध्यते। किं कारणं (1) सन्निहितासन्निहितकारणत्वेन यथाक्रम कार्यस्योत्पादानुत्पादात्। सन्निहितकारणत्वे च तयोर्युगपद् भावः स्यात् । अथ सन्निहितेपि कारणे पूर्वैवाकारप्रतीतिरुत्पद्यते नोत्तरा। तदा पश्चादपि सा न स्यात् । किं कारणं। पूर्वापरप्रतीतिकारणसन्निधानेप्यनुत्पन्नस्योत्तराकारप्रतीतिविशेषस्यातत्कारणत्वात् । पूर्वाकारप्रतीतिकारणं नास्य कारणमित्यर्थः । तस्मात् तयोः पूर्वापरभाविन्योः प्रतीत्योभिन्नाखिलकारणत्वं । भिन्नमखिलं कारणतयोरिति विग्रहः । ___ स्यान्मतं (1) तयोरकारप्रतीत्योः शब्द एवैकः कारणं केवलं सहकारिसन्निधानक्रमादुत्पत्तिक्रम इति (1) ___ अत आह । तत्रेत्यादि। तत्र तस्मिन् पूर्वोत्तराकारप्रतीत्युत्पत्तिकाले। एकस्य कारणस्य स्वरूपेणाभेदेपि प्रतीत्योर्युगपद् भाव एव स्यात्। किं कारणं (1)