________________
७. अपौरुषेय - चिन्ता
४६५
यदपि किचिदुत्तराकारप्रतीतिः (1) अप्रतीतेः । पूर्वाभिन्नविषया तद्वदित्यादि । तदपि न स्वलक्षणयोरभेदसाधने समर्थ । तत्स्वभावासिद्धेः । सामान्येन
ज्ञया प्रतीयते । तत्त्वप्रतिपत्त्यन्यथानुपपत्त्या च ताल्वादिव्यापारात् प्राक् सत्त्वं शब्दस्यापि निश्चितमिति कथन्तात्वादयो सिद्धोपलम्भना: ( 1 ) तेन व्यञ्ज का एव युक्ताः ।
एवम्मन्यते । प्रथमे क्षणे शब्दग्रहणं द्वितीयक्षणे पूर्वगृहीतशब्दाहितसंस्कारप्रबोधस्ततोन्यस्मिन् क्षणे शब्दस्मरणं । तततश्चतुर्थे क्षणे तिरोहिते तस्मिन् स एवायं घटशब्द इति प्रत्यभिज्ञानं कथं प्रत्यक्षं स्यादसन्निहितविषयत्वात् ।
नापि प्राक् प्रबुद्धसंस्कारस्य पुंसो वर्णग्राहकं प्रत्यभिज्ञानं सम्भवति । वर्णस्य सांशत्वादित्युक्तं । अन्त्यवर्णभागकाले च पूर्ववर्णभागानामसत्त्वेनान्त्यस्यापि वर्णस्यासन्निहितत्वात् । अत एव पदवाक्ययोरपि ग्राहकं प्रत्यक्षं प्रत्यभिज्ञानं न सम्भवति वर्णसमुदायत्वात् पदादेरन्त्यवर्णकाले च पूर्वपूर्ववर्णानामसत्त्वात् सन्निहितविषयञ्च प्रत्यक्षमिष्यते । तस्मान्न प्रत्यक्षं प्रत्यभिज्ञानम्वर्णपदवाक्येषु तत्त्वग्राहकं सम्भवति (1) अत एव चाचा र्येण नोपन्यस्तं . (1)
भवतु वा तेषु प्रत्यभिज्ञानं प्रत्यक्षन्तथापि तत्त्वग्रहणान्यथानुपपत्त्या न ताल्वादिव्यापारात् प्राक्छब्दस्य सत्त्वकल्पना युक्ता । सदृशापरग्रहणेनापि तत्त्वग्रहणस्य सम्भवात् सदृशापरग्रहणमेवाव्याप्यसिद्धमिति चेत् ।
नन्वेकत्वमपि नैव सिद्धं । तत्त्वग्रहणात् सिद्धमिति चेन्न (1) भिन्नेष्वपि लूनपुनर्जातेषु केशेषु तत्त्वग्रहणस्य दर्शनात् संशय एवातः । कथम र्थापत्त्या प्राक्
सत्त्वकल्पना ।
अथ प्रत्यभिज्ञायमानत्वाच्छब्दस्य नित्यत्वम् ( 1 ) अनित्यत्वे ह्यनेकत्वात् प्रत्यभिज्ञानमेव न स्यात् । तथा । यः परार्थम्प्रयुज्यते स प्रयोगात् प्राग् विद्यमानो यथा वास्यादिच्छिदायां । प्रयुज्यते च शब्दः परप्रत्यायनाय । तस्मात् सोपि
प्राग् विद्यत एव चेति (1)
अत आह । प्रत्यभिज्ञानेत्यादि । शब्दस्य सदा सत्तासिद्धिहेतवः । तेपि न हेतुलक्षणं पुष्णन्ति । तथा ह्यनित्येपि प्रदीपादौ प्रत्यभिज्ञानन्दृष्टं । तस्मादनैकान्तिकमेतत् ( 1 ) तथा क्षणिकेपि कर्मणि प्रयोगे दृश्यते । तेन प्रयुज्यमानत्वादित्यपि हेतुरनैकान्तिक एव ।
यदपि किञ्चिल्लिङ्गं शब्दस्यैकत्वसाधनायोपादीयते । उत्तरा पश्चाद्भाविन्यकारप्रतीति सा पूर्वाभिन्नविषया । पूर्वया अकारप्रतीत्या एकविषया ।
एतेन शब्दानामेकत्वसाधनान्नित्यत्वं साधितमिति मन्यते । अकारप्रतीतिरिति