________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।२६५ )
यथा दीपोन्यथा वापि को विशेषोस्य कारकात् । (२६५) स्वप्रतिपत्तिद्वारेणान्यप्रतिपत्ति' हेतुर्लोके व्यञ्जकः सिद्धो दीपाविवत् । स चेत् प्राक् सिद्धः स्यात् । समानजातीयोपादानलक्षणसिद्धेर्न तस्यैवातिशयस्य ज्ञानहेतोस्तस्य तत्सामग्रीप्रत्ययत्वात् । ये पुनरसिद्धोपलंभनाः कारका एव कुला ( ला ) दिवद् घटादौ । प्रत्यभिज्ञानावयोपि सिद्धिहेतुवो न हेतुलक्षणं पुष्णन्ति ।
४६४
पयोगोवस्थाभेदोऽव्यवहितसामर्थ्य उपयोगो यस्यावस्थाभेदस्येति विग्रहः ।
अथ स्यात् (1) नैव विज्ञानजनिकावस्थोत्पद्यते नित्यत्वात् ( 1 ) किन्तु ताल्वादिकमपेक्ष्यासौ ज्ञानं जनयतीति ( 1 )
अत आह । अतिशयस्येत्यादि । नास्य सहकारिकृतोतिशयोस्तीत्यनतिशयस्य सहकारिणं प्रत्यपेक्षा प्रागेव निरस्ता ( 1 ) स च जनकः शब्दस्वभावः करणव्यापारादेव सिद्ध इति कृत्वा सर्वकार्यतुल्यधर्मा । सर्वे कार्ये तुल्यधर्मा यस्येति विग्रहः । तस्य तावृशस्य कार्यतुल्यधर्मणः शब्दस्य व्यक्ताविष्यमाणायां सर्वमङकुराद्यपि व्यङग्यं स्यात् । न वा किंचित् व्यङग्यं । 1 शब्दोपि कार्यः स्याद् विशेषाभावात् ।
तथा हि (1) स्वज्ञानेन करणेनान्यधीहेतुरर्थो व्यञ्जको मतः । कदा (1) सिद्धेर्थे । यद्यसौ व्यङ्ग्ग्यः कारणाल्लब्धसत्ताको भवति । यथा दीपः कुलालादिसिद्धे घटे तज्ज्ञानहेतुर्व्यञ्जकः । अन्यथा वापि यदि व्यङग्यः प्रागसिद्धः स्यात् । तदा को विशेषस्य व्यञ्जकस्य कारकाद्धेतोः ( 1 )
स्वप्रतिपत्तीत्यादिना व्याचष्टे । स्वप्रतिपत्तिरेव द्वारमुपायस्तेन करणेनान्यस्य घटादेः प्रतिपत्तिहेतुर्लोके व्यञ्जकः सिद्धः । दीपादिवत् । स चेद् व्यङग्यः व्यञ्जकव्यापारात् प्राक् सिद्धः स्यात् ।
ननु च प्रदीपादिरप्युपलब्धियोग्यं घटक्षणं प्रागसिद्धमेव जनयति । तत्कि - मुच्यते स चेत् प्राक् सिद्ध इति ( 1 )
अत आह । समानजातीयेत्यादि । अनुपलम्भयोग्यः पूर्वको घटादिक्षण: समानजातीय उपादानक्षणस्तस्य व्यञ्जकव्यापारात् प्राक् सिद्धेः कारणात् स चेत् प्राक् सिद्धः स्यादित्युच्यते । न तस्यैव व्यञ्जकाल्लभ्यस्य ज्ञानहेतोरतिशयस्य प्राक् सिद्धेः सिद्ध उच्यते । किं कारणं ( 1 ) तस्य यथोक्तस्यातिशयस्य । तत्सामग्रीप्रत्ययत्वात् । सा व्यञ्जकसामग्री प्रत्ययः कारणं यस्येति विग्रहः । ये पुनः 175b स्वव्यापारात् प्राग् असिद्धस्यो' पलम्भकाः कारका एव ते । किमिव (1) कुलालादिवद् घटादौ शब्दस्याप्युपलम्भहेतवः कुलालादितुल्या इति । शब्दोपि घटादिवत् कार्य एवं ।
नन्वेकदा श्रुतस्य शब्दस्यान्यदा श्रवणे च स एवायमिति तत्त्वं प्रत्यक्षप्रत्यभि