________________
७. अपौरुषेय-चिन्ता
४६३
ननु तद्रूपमसिद्धमेव यत्तथाभूतविज्ञानाव्यवधानोपयोगि। सिद्धमेव तदन्यवैकल्यान्नोपयुक्तमिति चेत् (1) कथमिदानीमुपयुक्तानु (प)युक्तयोरभेदः ।
नापि भेदः स्वभावासंस्पर्शी तस्यैवातिशयस्योपयोगसिद्धः। तस्याकरणत्वप्रसंगात्। यस्यैव भावे साध्यसिद्धिः तदेव हि तत्रोपयोगि युक्तं। तदतिशयोपयोगेप्यस्य तद्वत्प्रसंगः। तस्मादतिशेत एवाव्यवहितसामोपयोगोवस्था - भेदस्तदन्यविकल्पान्नोपयुक्तमिति चेत् प्रागेव निषिद्धा। स च करणव्यापारादेव सिद्ध इति सर्वकार्यतुल्यधर्मा। तस्य तादृशस्य व्यक्तौ सर्व व्यङग्यं । न वा किंचिदप्यविशेषात् । तथा हि।
स्वज्ञानेनान्यधीहेतुः सिद्धर्थे व्यञ्जको मतः ॥
विधेत्यादि। तथाविधस्य शब्दस्वलक्षणप्रतिभासिज्ञानस्य व्यवधानेनोपयुक्तं शीलं यस्येति विग्रहः। यदि हि तथाभूतं रूपं प्राक् सिद्धं स्यात् तदा नित्यं शब्दोपलम्भः स्यात्।
सिद्धमेव तच्छब्दस्य यथोक्तं रूपं केवलमन्यस्य सहकारिणो वैकल्याच्छ्रोत्रविज्ञाने कारणत्वेन नोपयुक्तमिति चेत् ।। ___ यद्येवं सहकारिसन्निधाने या पश्चात् स्वज्ञाने उपयुक्ता। या प्रयत्नात् प्रागनुपयुक्तावस्था । ते परस्परविरुद्ध। कथमिदानीमुपयुक्तानुपयुक्तयोरवस्थयोविरुद्धयोरभेदः (1) अपि तु भेद एव ततश्च नानात्वात् स तादृशः शब्दस्य स्वभावः कृत इति कार्य एव शब्द: स्यात् । __ अथापि स्याद् (1) योसावतिशयो भवति न स शब्दस्यात्मभूतोपि त्वर्थान्तरमिति पूर्वक स्वभावादप्रच्युत एवासावित्याह।
175a नापि भेदोऽकारकावस्थातः कारकावस्थालक्षणोतिशयः शब्दस्वभावासंस्पर्शी शब्दस्वभावान्न व्यतिरिक्त इति यावत्। व्यतिरेके हि तस्यैवातिशयस्य शब्दज्ञाने उपयोगसिद्धेः कारणत्वसिद्वेस्तस्य शब्दस्याकारणत्वप्रसंगात्। तथा हि यस्यैव भावे साध्यसिद्धिस्तदेव तत्र साध्य उपयोगि युक्तन्नापरं। अतिशयो ज्ञान उपयुज्यते (1) साक्षादतिशये तु शब्द उपयुज्यत इति पारम्पर्येण शब्दोपि ज्ञाने उपयुक्त एवेत्यत आह।
तदतिशयेत्यादि। तस्मिन्नतिशयस्य शब्दस्योपयोगेपि कल्प्यमाने। तद्वत्प्रसङ्गः। ज्ञानवत्प्रसङ्गः। यथा विज्ञाने कर्तव्येर्थान्तरभूते नातिशयेन शब्द उपयुज्यते। तद्वदतिशयेपि कर्त्तव्यर्थान्तरभूतोतिशयः कल्पनीयः। तथा चानवस्था स्याद तोतिशयः शब्दादभिन्न: (1) यतश्चाभिन्नः । तस्मात् तदन्यं स्वविषयज्ञानजननं शब्दस्वभावमतिशेत एव। स्वरूपभेदेन। कोऽव्यवहितसामो