________________
४६२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२६४) 3sa श्रया। सा सत्ता कुतः सिद्धा येन कार्यतां साधयेत् (1) न ह्यसिद्धायामस्यामेवं भवतीति। तस्मात् सत्तासिद्धिस्तत्साधनी। सा चोपलब्धिरेव।
सत्यम् (0) एवं यदि तस्य प्राङ न सत्ता सिद्धा स्यात् । सा हि सत्तासिद्धिः कार्याऽसिद्धिपूर्विका।
यत् खलु रूपं यत एवोपलभ्यते तस्य रूपस्य लोकः कार्यतां प्रज्ञापयतीति सम्ब174b न्धः। यत एवोपलभ्यत इति यच्छब्देन यो निर्दिष्टस्तस्योपलब्धिस्तदुपलब्धिस्त
नान्तरीयिकामेवोपलब्धिमाश्रित्येति भिन्नक्रम एवकारः। सा यथोक्तोपलब्धिवर्णेष्वप्यस्ति (1) प्रयत्नव्यापारोपलब्धिनान्तरीयकत्वादेव वर्णोपलब्धः । सा चोपलब्धिरन्यत्रापि कार्यत्वेन प्रसिद्ध वस्तुनि (1) तदाश्रयः कार्यताप्रज्ञप्तेराश्रयः। नातोधिको विशेषः (1) तत्कथन्तुल्ये कार्यताभ्युपगमनिबन्धने न वर्णाः कार्याः।
नेत्यादि परः। न चैतदुपलब्ध्याश्रया। एकोपलब्धिनान्तरीयिका याऽपरस्योपलब्धिस्तदाश्रया कार्यतास्थितिः (1) किन्तर्हि (1) यत्सत्येव भवति । यस्मिन् सत्येव यद् भवति। इति एवं सत्ताश्रया कार्यतास्थितिः। न च वर्णानां करणेभ्यः सत्ता भवति किन्तूपलब्धिरेवेति मन्यते।
सा सत्तेत्याचा र्यः। सत्ताश्रयस्यैव कार्यता प्रज्ञप्तिरित्यसत्यमेतत। केवलं सा सत्ता कुतः प्रमाणात् सिद्धा येनेयं कार्यतां साधयेत्। न ह्यसिद्धायामस्यां सत्तायामेवम्भवति । सत्येवास्मिन्निदं भवतीत्येवम्भवति। तस्मात् सत्तासिद्धिस्तसाधनी। तस्याः कार्यतायाः साधनी। सा सिद्धिरुपलब्धिरेव सिद्धर्ज्ञानस्वभावत्वात्। ततश्च यन्नान्तरीयिकैव यत्सत्तोपलब्धिस्तत्तस्य कार्यमित्येतावत स्थितं (1) तच्च वर्णेष्वपि तुल्यमिति कथं न वर्णाः कार्याः।
सत्यमित्यादि परः। सत्त्यमेवं करणव्यापारादेव शब्दोपलब्धौ तत्कार्यता स्यात् । यदि तस्य शब्दस्य ताल्वादिव्यापारात् सत्ता न सिद्धा स्यात् । किन्तु सिद्धव प्रमाणेन। तथा हि पूर्व गोशब्दं श्रुतवतः पुंसोन्यदा गोशब्दश्रवणे स एवायं गोशब्द इति तत्त्वग्राहिणी प्रत्यभिज्ञोत्पद्यते। तत्त्वग्रहणमेवान्यथा न स्यात् । यदि पूर्वोत्तरश्रवणकालयोरन्तराले शब्दो न स्यादित्यर्थापत्त्या प्राक्छब्दस्य सत्ता सिद्धैव। न च सिद्धिविका सिद्धिः कार्यतासाधनी। किन्तु सा हि सत्तासिद्धिः कार्यत्वप्रज्ञप्तेनिमित्तं या सिद्धिविका। यथा घटस्य प्रागसतः कुलालादिव्यापारादेव पश्चात् सिद्धिः।
नन्वित्यादि सिद्धान्त वा दी। एतत् कथयति (1) न तावत् प्रत्यभिज्ञा प्रमाणमिति प्रातिपादयिष्यते तत्कथं सत्ता सिद्धा। भवतु नाम प्राक्छब्दस्य सत्ता सिद्धा। तथापि शब्दस्य तद्रूपमसिद्धं। कतरत् तद् रूपमित्याह। यत् तथा