________________
७. अपौरुषेय-चिन्ता
४६१
न वर्णानां रूपानपूर्वी वाक्यम् । किन्तहि। तद व्यक्तेः। सा यथा स्ववर्णाभिव्यक्तिप्रत्ययानां क्रमाद् भवन्ती क्रमयोगिनीति तदा नुपूर्वी वाक्यमित्यपि मिथ्या। तस्या नित्येष प्रागेव निषिद्धत्वात्। कार्यता साक्षाच्छक्त्युपधानेन ज्ञानजननकार्यविशेष एव) समर्था व्यक्तिरित्याख्यातमेतत् ।
व्यापारादेव तत्सिद्धः करणानाञ्च कार्यता ॥२६४॥ 35a यत् खलु रूपं यत एवोपलभ्यते (1) तस्य तदुपलब्धिनान्तरीयकामुपलब्धिमेवाश्रित्य लोकः कार्यतां प्रज्ञापयति (1) सा वणेप्यस्ति। सैव चान्यत्रापि (1) तदाश्रयो न विशेषस्तत्कथं तुल्येभ्युपगमनिबन्ध ने न वर्णाः कार्याः। न चैतदुपलब्ध्याश्रया कार्यतास्थितिः (1) किन्तर्हि (1) यत्सत्येव भवतीति । सत्ता
अथ माभूदेष दोष इत्यनित्यान् व्यापिनश्च वर्णानिच्छेत् वे द वा दी। तदाऽनित्याव्यापितायान्दोषः प्रागेव कीर्तितः।
अथेत्यादिना व्याचष्टे। माभूदेष वर्णानुपूर्व्यभावदोष इत्यनित्यानव्यापिनश्च वर्णानिच्छेद वेद वा दी। अनित्यत्वात् कालकृतपौर्वापर्यमव्यापित्वाद् देशकृतमिदमिति मन्यमानः। तावप्यनित्याव्यापिपक्षौ प्रागेव। “अनित्यं यत्नसम्भूतम्पौरुषेयं कथं न तद् ।" (. . . .) इत्यादिना। सर्वत्रानुपलम्भः स्यादित्यादिना च यथाक्रमनिराकृतावित्यपरिहारः। (२६४)
वर्णानां व्यक्तिर भिव्यक्तिस्तस्याः क्रमोपि वाक्यन्न भवति। यदा कर्मस्था क्रियाभिव्यक्तिस्तदा वर्णानां व्यक्तिविषयत्वक्रमो वाक्यमित्यपि न भवतीत्यर्थः। कस्मात् (1) नित्यव्यक्तिनिराकृतेः।
नेत्यादिना व्याचष्टे । न वर्णानां रूपानुपूर्वी स्वरूपानुपूर्वी वाक्यं येनायन्दोषः (1) किन्तर्हि (।) तद्वयक्तेः। वर्णरूपव्यक्तेर्व्यक्तत्वलक्षणाया यानुपूर्वी तद् वाक्यं । तामेव दर्शयन्नाह। नेत्यादि। सा व्यक्तिर्यथा स्ववर्णाभिव्यक्तिप्रत्ययानां । येन यस्य वर्णाभिव्यक्तिप्रत्ययास्ताल्वादिव्यापारास्तेषां क्रमाद् भवन्ती क्रमयोगिनीति कृत्वा तदानपूर्वी तेषां व्यक्तानां वर्णानामानपूर्वी वाक्यम (1) इत्यपि मिथ्या। किं कारणं (1)तस्या व्यक्तेनित्येषु प्रागेव सा मा न्य व्य क्ति चि न्तास्थाने निषिद्धत्वात् । तदेव स्मारयन्नाह। कार्यतेत्यादि। व्यञ्जककृतेन साक्षाज्जननशक्त्युपधानेन। ज्ञानजननासमर्थानां घटादीनां कार्यविशेष एव व्यक्तिरित्याख्यातमेतत् । किञ्च करणानान्ताल्वादीनां व्यापारादेव तस्माद्धेतोस्ते- . षाम्वर्णानामुपलब्धेस्तेषाम्वर्णानां कार्यता प्राप्ता (1) यस्मात् ।
1 Restored up to here.