________________
४६०
प्रमाणवात्तिकस्ववृत्तिटीका (१।२६४) अनित्या व्याप्तितायां च दोषः प्रागेव कीर्तितः ॥२६३॥ अथ माभूदेष दोष इत्यनित्यानव्यापिनश्च वर्णानिच्छेद् । तावपि पक्षी प्रागेव निराकृतावित्यपरिहारः।
व्यक्तिक्रमोपि वाक्यं न नित्य व्यक्तिनिराकृतेः ।
174a
सम्भवति। यस्मादन्योन्यं कालपरिहारेण वृत्तिः कालपौर्वापर्य। एतदेव कुतः । यदेत्यादि। यस्मिन् काले एको नास्ति तदान्यस्य भावात् कारणात् । तदपि कालपौर्वापर्यनित्येषु वर्णेषु न सम्भवति । सर्वदा सर्वस्य वर्णस्य भावात् । न च देशकालकृतात् क्रमादन्या वर्णानुपूर्वी गतिः प्रकारोस्ति। तत्कथम्वर्णपौर्वापर्य वाक्यं यद्भवद्भिरपौरुषेयं साध्येतेति।
न च ध्वनिकृतो युगपद्भाविनाम्वर्णानां क्रमो युक्तोऽनित्यत्वप्रसंगात् । तदुक्तम् (1) ___ "अनित्यध्वनिकार्यत्वात् क्रमस्यातो विनाशिता।
पुरुषाधीनता चास्य तद्विवक्षावशा'द् भवेदि"ति।। तेनायमों भवति (1) व्यापित्वाद वर्णानां यौगपद्यमतो व्यापित्वविरोधी क्रमः (i) क्रमविरोधि च व्यापित्वं । क्रमश्चेद् वर्णानामिष्यते व्यापित्वग्राहि प्रत्यभिज्ञानं भ्रान्तं स्यात् (1) तथा च देशकालप्रयोक्तभेदेन वर्णानाम्भिन्नत्वात् कार्यत्वमिति कथमनादित्वं क्रमस्य । तेन यदुच्यते।
"न च क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात्। वक्ता न हि क्रम कश्चित्स्वातन्त्र्येण प्रपद्यते।। यथैवास्य परैरुक्तस्तथैवैनम्विवक्षति ।
परोप्येवमतश्चास्य सम्बन्धवदनादिते"ति (1) तदपास्तं। क्रमे सति वणकत्वप्रत्यभिज्ञानस्याप्रामाण्येन प्रत्युच्चारणं वर्णानां कार्यत्वात् क्रमस्य च तेभ्योनन्तरत्वात् । न च क्रमः ऋमिणान्धर्मः (1) धर्मस्यापि धर्मिणस्सकाशाद भेदात भेदेन श्रोत्रज्ञानेऽवभासः स्यात् । न च भवति । तस्मादयुगपदुत्पन्ना एव भावाः क्रमः तेन प्रत्युच्चारणम्वर्णानामुत्पत्तिभेदात् क्रमभेदेपि। पूर्वदृष्ट एवायं क्रम इति प्रत्यभिज्ञानं सादृश्यनिबन्धनं । न प्रत्यभिज्ञानं सादृश्यनिबन्धनं। न प्रत्यभिज्ञानं प्रमाणमिति प्रतिपादयिष्यते च। तत्कथं क्रमस्यानादित्वादपौरुषेयत्वमिति। (२६३)
1Kumarila.