________________
४८६
७. अपौरुषेय-चिन्ता वर्णान्यत्त्वे अपूर्वाणामुत्पादाद् वा वर्ण बाहुल्यम्। तच्चैतत् नाभिमतम् । अपि च।
वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः ॥२६२॥ .
देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् । सा चेयं वर्णानामानुपूर्वी देशकृता वा स्यात् यथा पिपीलिकानां पंक्तिः, काल-6 कृता वा, यथा बीजांकुरादीनाम्।
सेयं द्विधाऽपि वर्णेषु न सम्भवति । अन्योन्यदेशपरिहारेण वृत्तिहि देशपौर्वापर्यम् । सर्वस्य' सर्वेण तुल्यत्वात्। तद् वर्णेषु न सम्भवति । वातातपवत्, 5oja आत्मादिवच्च । तथाऽन्योन्यं कालपरिहारेण वृत्तिः कालपौर्वापर्यम् । यदा एको नास्ति तदान्यस्य भावात् । तदपि नित्यादिषु न सम्भवति, सर्वदा सर्वस्य भावात् । न चान्या गतिः । तत् कथं वर्णपौर्वापर्य वाक्यं अपौरुषेयं साध्येत ।
तदेतत् क्रमान्यत्त्वं प्रतिपदम्वर्णान्यत्वे स्यान्नित्या अपि वर्णाः प्रतिपदम्भिन्ना इति कृत्वा । अपूर्वेषाम्वर्णानाम्प्रतिपदमुत्पादाद् वर्णबाहुल्यं । तस्माद्वा क्रमान्यत्त्वं स्यात् । तच्चैतदुभयमपि नाभिमतं मी मां स का ना मेकत्वान्नित्यत्वाच्च वर्णानां। (२६२.)
अपि चेत्यादिना दूषणान्तरमाह। देशकालाभ्यां यः कृतः क्रमस्तस्य वर्णेब्वभावः कथं। व्याप्तिनित्यत्ववर्णनात्। तदुक्तं ।
"किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञ या।
विभुत्वं च स्थितं तस्य को व्यवस्येद्विपर्ययमिति" ।' वर्णानामाकाशवद् व्याप्तिवर्णनान्न देशकृतः क्रमः। नित्यवर्णनान्न कालकृतः। सा चेयमित्यादिना व्याचष्टे। सा चेयम्वर्णानामानुपूर्वी। देशकृता वा स्यात् । यथान्योन्यदेशपरिहारेण स्थितानां पिपीलिकादीनाम्पङ्क्तौ। कालकृता वा स्यादानुपूर्वी। यथा बीजाङ्कुरादीनां। यदा बीजं न तदांकुरो यदांकुरो न तदा पत्रादय इति सेयमानुपूर्वी द्विधा। देशकालकृता वर्णेषु न सम्भवति । कुतः (1) व्याप्तेन्नित्यत्वाच्च। तत्र न तावद्देशकृतानुपूर्वी वर्णानां सम्भवति । यस्मादन्योन्यदेशपरिहारेण भावानां वृत्तिहि देशपौर्वापर्यं। तदित्थम्भूतं पौर्वापर्यम्वर्णषु न सम्भवति । किं कारणं (1) व्यापित्वेन सर्वस्य वर्णस्य सर्वेण वर्णेन तुल्यदेशत्वात्। वातातपवत्। लौकिको दृष्टान्तः। शास्त्रीयमाह। आत्मादिवच्चेति। आदिशब्दादाकाशादिपरिग्रहः। तथा कालकृतानपूर्वी वर्णानान्न
1Kumaitla.