________________
४८८
प्रमाणवार्तिकस्ववृत्तिटीका (१।२६२) स्तथा गकारोऽपि । तदाऽग्निरित्येव स्यात् न गगनमिति । अकारगकारयोः पूर्वापरभावस्य व्यवस्थितत्वात्। .
कृतकानामपि हेतुपरिमाणनियमवतां अशक्यः क्रमविपर्ययः कर्त्तम् । यथा बीजांकुरकाण्डादीनां ऋतुसंवत्सरादीनां च। किं पुनरचलितावस्थास्वभावानां अकृतकानां कथंचिद् व्यवस्थितानां पूर्वावस्थायाः त्यागमन्तरेण अन्यथा भावायोगात्। त्यागे वा विनाशप्रसंगात्, विशेषेण नित्यायामानुपूर्व्या अपि। प्रतिपदं
यदीत्यादिना व्याचष्टे । वर्णानामानुपूर्वी यदि कृतका ते च वर्णा न बहवस्तमानजातीया येन केन चिद् वर्णा व्यवस्थितक्रमाः स्युर्वैदिकाः। अन्ये पुनल्लौकिका यथेष्टपरावृत्तयः। यथेष्टं परावृत्तिः क्रमान्तरेण प्रयोगो येषामिति विग्रहः। किन्तहि त्रैलोक्य एक एवाकारस्तथा गकारः। तदुक्तं।
“देशकालप्रयोक्तृणाम्भेदेपि च न भेदवान् ।
गादिवो यतस्तत्र प्रत्यभिज्ञा परिस्फटे"ति ।' यदा चैवन्तदा व्यवस्थितक्रमत्वे वर्णानामग्निरित्येव स्यान्न गगनमिति । किंकारणम् (1) अकारगकारयोः पूर्वापरभावस्य व्यवस्थितत्वात्। अकारो गकारात् पूर्वमेवाकाराच्च गकारः परेणैव व्यवस्थित इत्यर्थः। गगनमित्यत्र - गकारात्परेणाकारः स्यादिति क्रमान्तरन्न स्यात् ।
एतदेव द्रढयन्नाह। कृतकानामपीत्यादि। आस्तान्तावदकृतकानामियञ्चिन्ता। येषामन्यथाभावः कथञ्चिदपि कर्तुं न शक्यते। कृतकानामपि तावद् भावानां कीदृशं हेतुपरिणामनियमवतां हेतोः परिणामः। उत्तरोत्तरावस्थाप्रतिलम्भः। तस्मान्नियमः कार्यस्य हेत्वनन्तरं सत्ता। स येषां विद्यते।
ते तथोच्यन्ते। तेषामप्यशक्यः क्रमविपर्ययः कर्तुं । यथा बीजाङ्कुरादीनां। बी- . 173b जात् पश्चादङकुरोङकुरात् काण्डं यत्र पुष्पादीनि न विपर्ययः । तथा ऋतुसम्व
स्सरादीनां व्यवस्थितक्रमत्वं। ऋतूनां हेमन्तादिलक्षणानां। सम्वत्सराणाञ्च शौ क्र बा है स्पत्यादीनां। आदिशब्दाद् ग्रहनक्षत्रप्रभृतीनां। किं पुनरचलितावस्थास्वभावानामकृतकानाम्वर्णानां। अचलिताक्रमाद्यवस्था स्वभावश्च येषामकृतकानामिति विग्रहः। कथंदिद् व्यवस्थितानां। विनियतेन क्रमेण । पूर्वावस्थायास्त्यागमन्तरेणान्यथाभावायोगात् क्रमान्तरेणावस्थानस्यायोगात् । पूर्वावस्थात्यागे वा वर्णानामभ्युपगम्यमाने तेषाम्विनाशप्रसङ्गात्। वर्णानामपि तावन्न पूर्वावस्थात्यागमन्तरेण क्रमविपर्ययो विशेषेण नित्यायामानुपूर्त्यां ।
1Kumarila.