________________
७. अपौरुषेय - चिन्ता
न प्रर्थान्तरभूतमेव शब्दरूपं वाक्यं अपौरुषेयं चेत् । किन्तहि । वर्णानुक्रमलक्षणं हि नो वाक्यं तदपौरुषेयं साध्यमिति चेत् ।
४८७
न । वर्णानामनुपूर्व्या प्रभेदात् । नेयमर्थान्तरं वर्णेभ्यः । दृश्यायां भेदे - नोपलम्भप्रसंगात् । प्रदृश्यायां ततोऽप्रतिपत्तिप्रसंगात् श्रनिरूपणाच्च । भेद- 504b वत्याश्चानुपूर्व्या प्रभावे वर्णमात्रमवशिष्टमिति पूर्ववत् प्रसंग: ।
तेषां च न व्यवस्थानं क्रमान्तरविरोधिनः ।
यदि वर्णानामानुपूर्वी कृतका', ते च न बहवः समानजातीया येन केनचिद् व्यवस्थितक्रमाः स्युः, अन्ये यथेष्टपरावृत्तयः । किंर्ताह । त्रैलोक्य एक एवाकार
तन्न । किं कारणं (1) वर्णानामानुपूर्व्याः सकाशादभेदतः ? ( 1 )
न वर्णेभ्योर्थान्तरमेव शब्दरूपम्वाक्यमपौरुषेयं । किन्तर्हि ( 1 ) वर्णानुक्रमलक्षणं हि नोस्माकं मी मांस का नाम्वाक्यं । तदपौरुषेयं साध्यमिति चेत् ।
न । वर्णानामानुपूर्व्याः सकाशादभेदात् । नेयमानुपूर्वी अर्थान्तरम्वर्णेभ्यः । किं कारणं । दृश्यायामनुपलब्धिलक्षणप्राप्तायान्तस्यामानुपूर्व्यामङ्गीक्रियमाणायां वर्णेभ्यो विभागेन भेदो नोपलम्भप्रसङ्गात् । न चोपलभ्यत इत्यभावसिद्धौ स्वभावानुपलब्धिर्वाच्या । अथादृश्यानुपूर्वी (1) तदाप्यदृश्यायामानुपूर्व्यं । तत अनुपूर्व्या अर्थाप्रतिपत्तिप्रसङ्गात् ( 1 ) न च दृश्याया आनुपूर्व्या ग्राहकं प्रत्यक्षमदृश्यत्वादेव । नाप्यनुमानं लिङ्गाभावात् । वर्णेभ्यो भेदवत्याश्चानुपूर्व्या अभावे वर्णमात्रमविशिष्टं सर्वत्र लौकिकवैदिकवाक्येष्विति पूर्ववत् प्रसङ्गः: 2 यः किमनेन परिशोषितं स्यादित्यादिनोक्तः ।
अथ स्याद् (1) क्रमो वर्णानां धर्ममात्रन्न वस्त्वन्तरं तेनादोषः । तदुक्तं (v) "धर्ममात्रमसौ तेषान्न वस्त्वन्तरमिष्यते ।
क्रमेण ज्ञायमानाः स्युर्वर्णास्तेनावबोधकाः । न च क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात् । वक्ता न हि क्रमं कश्चित् स्वातन्त्र्येण प्रपद्यते । यथैवास्य परैरुक्तस्तथैवैनं विवक्षति |
परोप्येव ं सतश्चास्य सम्बन्धवदनादिता । " १
तेन पूर्वपूर्ववृद्धदर्शनायातोनादिवर्णक्रमो पौरुषेय एवेत्यत्राह ।
तेषां च न व्यवस्थानं ( 1 ) तेषां वर्णानां न व्यवस्थितक्रमत्वं । किं कारणं
(1) व्यवस्थितादेकस्मात् क्रमान्तरस्य विरोधतः ।
1 Kumārila.
173a