SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ४८६ प्रमाणवार्तिकस्ववृत्तिटीका (१।२६२) सकृत् प्रकाशयन्ति, क्रमाभावात् । नाप्येक एव भागः । तदन्यस्य वैयर्थ्यप्रसंगात्, एक वर्णभागकाले च समस्तस्य अनुपलक्षणात्। तद, अयं अप्रतिसंहतसकलोपालम्भ उपलम्भसाकल्यसाध्यमर्थ ध्वनिवत् कथं साधयेत् । को हि उपलम्भसाध्येष्वर्थेषु सदसतोरत्यन्तानुपलम्भे विशेषः ? न च सन्निधिमात्रेण साधनम्। व्यक्तिव्यपेक्षणात्। सदसतोः क्रमेण भवन्ती तुल्योपयोगेति ध्वनिभिरशक्यसाधनम। तत्रापि तथा।4 तथा सत्यलमन्येन । तस्मान्न वर्णेष्वपौरुषेयता। (घ) वर्णानुपूर्वि-चिन्ता वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः । नक्ति। निश्चाययति। किं कारणं (।) तदन्यस्य व्यञ्जकत्वेनाभिमतस्य ध्वनिभागस्य वैयर्थ्यप्रसङ्गात् । इतश्चैको ध्वनिभागो न समस्तस्य शब्दस्य व्यञ्जको यस्मादेकवर्ण भागकाले च समस्तस्य वाचकरूपस्यानुपलक्षणात्। तदिति तस्मादयं शब्दात्मा। ध्वनिभागैः क्रमभाविभिः क्रमेण व्यज्यमानत्वात्। अप्रतिसंहितो न संघटितस्सकलोपलम्भो यस्य शब्दात्मनः स एवम्भूतः शब्दात्मा। उपलम्भसाकल्यसाध्यमर्थ स्वाभिधेयं प्रकाशनलक्षणं कथं साधयेत् (1) नैव साधयेत् । किमिव (1) ध्वनिवत् । यथा ध्वनि भागास्त्वन्मतेन पूर्वापरेणाप्रतिसन्धानादर्थन्न प्रकाशयेयुस्तद्वत्। को हीत्यादिनैतदेव समर्थयते। उपलम्भसाध्यष्वर्थेषु को हि सदसतोरत्यन्तानुपलम्भे सति विशेषो नैव कश्चित् । यथा हि क्षणिका ध्वनिभागा उत्तरोत्तरभागावस्थायामसत्त्वादसमस्तोपलम्भनान्न समर्थास्तथैवाक्रमोपि शब्दात्मा सन्नप्यस्वीकृतसमस्तोपलम्भनो न समर्थ एवेति। न चायं शब्दात्मा। उपलम्भनिरपेक्षः सन्निधिमात्रेणार्थप्रतीतिसाधनः। किं कारण (1) तस्या व्यपेक्षणात्। सा चेयं व्यक्तिः क्रमभाविनी सदसतोः (1) सतः शब्दात्मनः। असतश्च ध्वनिभागस्य क्रमेण भवन्ती तुल्योपयोगा। तुल्यफलेति कृत्वा ध्वनिभिरशक्यसाधनं साधयितुमशक्यं यत् कार्यमर्थ प्रतीतिलक्षणं। तत्रापि तथा। ध्वनिभिर्व्यज्यमानेपि शब्दात्मनि तथा। अशक्यसाधनमेवेत्यलमन्येन शब्देन ध्वनिव्यतिरिक्तेन कल्पितेन। तस्मान्न वर्णेष्वपौरुषेयता। नापि वाक्य इत्युपसंहारः। न वर्णव्यतिरिक्तम्वाक्यं किन्तु वर्णानुपूर्वी वाक्यं (1) तच्चापौरुषेयमिति चेत् ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy