________________
कि च ।
७. प्रपौरुषेय - चिन्ता
४८५
. ध्वनयः संमता यैस्ते दोषैः कैरप्यवाचकाः । ध्वनिभिर्व्यज्यमानेस्मिन वाचकेऽपि कथं न ते ॥ २६१ ॥
*मो' त्पादिभिर्ध्वनिभागैर्व्यक्तः प्रकाशितो वाचको वक्ति । तमपि ते न 504a
1
प्रतीतिरित्याह । क्रमभाविन एवेत्यादि । यथास्वं यस्य यत्करणन्तात्वादि । तस्य प्रयोगो व्यापारस्तस्माद् भिन्ना वर्णभागाः । कर्मभागा वा यथास्वं करणप्रयोगात् । कर्म हेतोः प्रयोगात् क्रमभाविनो भिन्ना इत्यत्रापि सम्बन्धनीयं । ते यथोक्ता वर्णभागाः कर्मभागा वा क्रमेण विकल्पविषयादत्यनुभवज्ञानानुक्रमानुसारिणां विकल्पानां क्रमेण विषयमुपगता यथासंकेतमेवार्थप्रतीतिं जनयन्तीति न्याय्यं। युक्त्यपेतत्वात्।
किं चेति दोषान्तरमप्याह । यैः कैरपि दोषः पूर्वपूर्वस्य ध्वनिभागस्योत्तरो - " त्तरेण ध्वनिभागेनाप्रतिसन्धानादित्यादिकैः करणभूतैस्ते ध्वनयो वै या करणा दीनामवाचकास्सम्मताः। दृष्टाः ( 1 ) तैः क्रमभाविभिर्ध्वनिभिर्व्यज्यमानेस्मिन्ध्वनिव्यतिरिक्तेपि वाचके कथन्न ते । ध्वनिभाविनो दोषा न सन्ति भवन्त्येव ।
ननु ध्वनयः प्रत्येकं समुदिता वा पूर्वोक्तेन न्यायेन नार्थस्य प्रतिपादकाः । वाचकस्य तु ते प्रत्येकमभिव्यञ्जका इष्यन्ते । एकेन ध्वनिनाभिव्यक्तस्य वाच- 172b कस्यानवधृतत्वादन्यान्यैरभिव्यक्तस्य संस्काराधानतारतम्यप्रबोधेनावधारणमिति ध्वनिभिर्व्यज्यमाने वाचकेपि कुतस्ते दोषा इति । तदुक्तम्भ ण्ड ने न ।
"नानेकावयवं वाक्यं पदं वा स्फोटवादिनां ।
एकत्वेपि भिन्नस्य क्रमशो दर्शिता गतिरिति ।
तदयुक्तम् (1) अभिव्यक्तिर्हि ज्ञानं ( 1 ) न च शब्दानुगमेन विना - ज्ञानमिष्यते भवद्भिः । तेनाभिव्यक्तिरिति निश्चय एवोच्यते । न च प्रथमध्वन्यनन्तरम्वाचकनिश्चयः । प्रतिभासत इति ( 1 ) तत्कथमस्याभिव्यक्तिः ।
तस्मात् स्थितमेतद् यथा ध्वनयः प्रत्येकं समस्ता वार्थप्रतिपादनेऽशक्तास्तथा वाचकाभिव्यक्ताविति ।
क्रमेत्यादि विवरणं (1) क्रमोत्पादिभिर्ध्वनिभागैर्व्यक्तः प्रकाशितः किलाक्रमः शब्दात्मा वाचको र्थम्वक्ति । न सन्निधानमात्रेण ( २६१ )
तमपि ध्वनिव्यतिरिक्तं शब्दात्मानं ते ध्वनयो न सकृत् प्रकाशयन्ति । किं कारणं (1) तेषां ध्वनिभागानां क्रमभावात् । नाप्येक एव ध्वनिभागः शब्दं व्य
1 Sphotasiddhi (by Mandana) 29