________________
४८४ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६०) .
तन्न । क्रमवद् व्यतिरेकिणा क्रमस्य प्रागेव निषिद्धत्वात्। तथाऽतिप्रसंगात् । पर्वेण कर्मविभागेनापरस्याप्रतिसन्धानात् एकांशाच्चाप्रतीतेः। तद्व्यतिरेकिहस्तसंज्ञादिषु प्रतीतिहेतुः समस्तरूपकर्मात्माशब्दवदेवाभ्युपगन्तव्यः स्यात् । यथास्वं करणप्रयोगाद् भिन्ना वर्णभागाः, कर्मभागा वा क्रमभाविनः। ते क्रमेण विकल्पविषयाद् यथासंकेतमेवार्थप्रतीति जनयन्तीति न्याय्यम् ।
(1) क्रमवन्तो भागा यस्येति विग्रहः।
तन्नेत्यादिना प्रतिषेधति। तदेतदनन्तरोक्तं न सम्भवति। कस्मात् । क्रम172a वन्तो ये वास्तव्यतिरेकिणा क्रमस्य शब्दस्य। "न हि वयन्देवदत्तादि पदवा
क्येषु दकारादिप्रतिभासं मुक्त्वा परं प्रतिभासमपलक्षयाम" इत्यादिना प्रागेव निषिद्धत्वात्।
यदि चासमस्तभागेषु ध्वनिष्वर्थप्रतीतेरसम्भवादक्रमसत्वं शब्दरूपं कल्प्यते । तदातिप्रसङ्गश्चैवं कल्प्यमाने। तथा हि हस्तादीनां यथा संकेतगमनागमनादिसूचकानि यानि कर्माणि तेषां ये भागास्तेषां क्षणिकत्वात् पूर्वेण कर्मभागेनापर- . स्योत्तरस्य कर्मभागस्याप्रतिसन्धानादघटनात्। एकांशाच्चाप्रतीतेः। एकस्मा
चाल्पीयसः कर्मभागाद् यथा संकेतस्य गमनागमनादिलक्षणस्यार्थस्याप्रतिपत्तेः । तद्वचतिरेकी। कर्मभागेभ्योन्यः। यथासंकेतं हस्तसंज्ञादयः। आदिशब्दादर्थप्रतीतौ शिरःकम्पादयो गह्यन्ते। तेष्वर्थप्रतीतिहेतुः समस्तरूपकर्मात्माभ्युपगन्तव्यः स्यात् । शब्दश्वदेव। ध्वनिव्यतिरिक्तशब्दकल्पनावत् ।
यत्पुनरुक्तम्म ण्ड ने न। “यदा विद्यवृद्धा हस्तसंज्ञादिविषयानुत्क्षेपणत्वादिशब्दनिर्देश्यान् सामान्यविशेषानभ्युपगच्छन्ति तदा कोयं प्रसङ्गः। एकः कर्मात्माभ्युपगन्तव्य"१ इति । ___ तदयुक्त। यतो यद्येकमुत्क्षेपणरूपङ्कर्म सिद्धम्भवेत्। तथा परापरमपियदि सिद्धं स्यात् तदा तेषु बहुषूत्क्षेपणेषु प्रत्येकमुत्क्षेपणत्वसामान्यम्वर्तेत । तदेव तु न सिद्धं पूर्वापरकर्मभागानामनन्वयात्। न च विशेषाभावे सामान्यसद्भावः । नापि कर्मभागेषु प्रत्येकमुत्क्षेपणादिरूपतया प्रतीतिः (1) किन्तर्हि (1) तद्भागरूपतया (1) तत्कथन्तेषु भागेषूत्क्षेपणत्वसामान्यमभ्युपगम्येत (1) अभ्युपगमे वा एकस्मादपि कर्मभागाद् गमनादिलक्षणस्यार्थस्य प्रतिपत्ति: स्यादर्थाभिधायकस्य सामान्यस्य भावादिति यत्किञ्चिदेतत्। यथा च न कर्मभागेषु व्यतिरिक्तं कर्मात्मा तथा ध्वनिभागेष्वपि न व्यतिरिक्तः शब्दात्मा। कथन्तमुर्थ
1Sphotasiddhi 33 (pp. 253-54)