________________
४८३
७. अपौरुषेय-चिन्ता
कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् ॥ २६०॥
तानि प्रतिनियतशक्तीन्यपीन्द्रियाणि प्रतिशब्दनियतान् नाना रूपान्-' न त्वेव शृण्वन्तीति शब्देष्वेषां निर्वेदाः । वाचकेभ्यो भेदेन कदाचित् श्रवणात् । न हि वाचके प्रतिनियतशक्तीन्यपीन्द्रियाणि ध्वनिषु तद्भिन्ना इत्यत्र अल्पीयान् भागः । इयं हि गतिर्ध्वनिभ्यः समस्ताभ्यः । न हि ध्वनिभागं समेति वाक्यानवस्थामात् । सिद्धमक्रमसत्त्वं शब्दरूपस्येति ।
सत्त्यं । य एव वाचकाः प्रयत्ननिष्पन्नास्त एव परस्परसंहर्षेण ध्वन्यारम्भकाः (1) तेन कलकले केषांचिद् ध्वनिमात्रस्य प्रतीतिरन्येषामुभयप्रतीतिरित्यदोषः । (२५६)
यदप्युक्तं समीपवर्तनापि कलकले ध्वनय एव केवलं श्रूयन्ते न वाचकाः शब्दा इति ।
तदप्ययुक्तं । यस्मान्न च कलकले वाचको न श्रूयते । किन्तु श्रूयत एव । किं कारणं । पदवाक्यविच्छेदानामुपलक्षणात् । अपि च कथं चेन्द्रियस्यैकशक्तिप्रतिनियमाद् भिन्नध्वनिगतिर्भवेत् । बहूनां ध्वनीनां ग्रहणम्भवेत् । नैव भवेत् ।
तानीत्यादिना व्याचष्टे । तानि प्रतिनियतशक्तीन्यपीन्द्रियाणि युगपनानारूपान् ध्वनीन् श्रृण्वन्ति । कीदृशान् ( 1 ) प्रतिशब्दनियतान् । शब्दं शब्दं प्रति व्यञ्जकत्वेन नियतान् । न त्वेव शब्दान् युगपच्छृण्वन्तीति कः शब्देष्वेषामिन्द्रियाणां निर्वेदो वैमुख्यं येन तान् न श्रृण्वन्ति । न च भावशक्तिरीदृशीति शक्यवक्तुं (1) कदाचिद् बहूनामपि वाचकानां श्रवणात् ( २६० )
यदुक्तमित्यादि परः । यदुक्तम्बौ द्धेन वाचकेभ्यः वर्णपदवाक्येभ्यो भेदेन नयन सिद्धा इति । कथन्न सिद्धा: ( 1 ) सिद्धा एव । किं कारणं । वचनादर्थप्रतीतेः । शब्दादुच्चरितादर्थस्य वाच्यस्य गतेः । न चेयमर्थगतिर्ध्वनिभ्यः सम्भवति । किं कारणं (1) न हि ध्वनिभागादल्पीयसो वर्णव्यञ्जकादर्थप्रतीतिः । वर्णोप्येकस्तावत् प्रायेणानर्थकः ( 1 ) प्रागेव व्यञ्जकोल्पीयान् ध्वनिभागः । सहिता प्रतिपादका इति चेदाह । न च सोन्यं समेति (1) सोल्पीयान् ध्वनिभागः क्षणिकत्वादन्यमुत्तरकालभाविनं ध्वनिभागं समेति संश्लिष्यति । तदिति तस्मादियमर्थप्रतीतिः समस्तानि परिपूर्णानि पदवाक्यरूपाणि यस्मिन् वाचके तत्तथा । तेन साध्या ध्वनिषु न सम्भवति । कीदृशेषु । असमस्ता असंश्लिष्टा भागा उत्पन्नोत्पन्नध्वनिभागस्य क्षणिकत्वेन द्वितीयध्वनिभागानवस्थानाद् येषान्तेषु । इति एवमर्थप्रतिपत्त्यन्यथानुपपत्त्या सिद्धमक्रमसत्त्वं । अक्रमं सत्त्वं यस्य शब्दरूपस्य तत्तथा । निर्विभागमिति यावत् । क्रमवद् विभागश्च वाचकव्यतिरिक्तो ध्वनिः