________________
503b
४८२
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १।२६० )
तद् श्रयं स्थितेष्वन्येषु व्याहर्तृषु केवलमेव शब्दं शृण्वन् तदुपलम्भप्रत्ययानां सामभावं प्रत्येति तदन्यनिष्पादने । यदि समर्थाः स्युस्तदा तत्साधितं तैरुपलभ्येत । तत्स्वभावा' एव प्रत्ययाः कलकले श्रर्थान्तरे । कथमारभेरन् ? न हि कारणाभेदे कार्यभेदो युक्तः । तस्याहेतुकत्वप्रसंगादित्युक्तं प्राक् ।
न कलकले वाचको' न श्रूयते पदवाक्यविच्छेदानामुपलक्षणात् ।
भिनं शब्दरूपमनिबन्धनं कथम्प्रवर्त्तयामः । तस्माद् ध्वनिविशेष एवाकारादिरूपेण स्थितः वर्णाख्यः वर्णादिरित्याख्या यस्येति विग्रहः । आदिग्रहणात् पदवाक्यादिपरिग्रहः ।
अपि च (1) यदि कलकले ध्वनयः श्रूयन्ते न वाचका । यदा तर्हि तत्र बहूनां व्याहर्तॄणान्तूष्णीमवस्थानात् । स्थितेष्वन्येषु शब्देष्वेकः पुरुषो व्याहरति तस्यैकस्य श्रवणे वाचकः कथं ।
1
अथ स्यात् (1) तदा ध्वनिरपि प्रतीयत इत्यत आह । न ध्वनिरतो वाचकाद् भिन्नो रूपन्तेन वाचकेन सह पृथग् वा श्रूयते । ध्वनिभ्यः श्रूयत एवेति चेदाह । न हि प्रत्यक्षेर्थे परोपदेशो गरीयान् । येन स्वयम्विवेकेनाश्रृण्वन्नपि त्वद्वचनमात्राद् ध्वनेः श्रवणं व्यतिरिक्तस्य प्रतिपद्यते । तदिति तस्मादयं श्रोता स्थितेष्वन्येषु व्यवहर्त्तृष्वेकस्यैव व्याहरतः । केवलमेवार्थान्तरध्वनिविविक्तमेव शब्दं शृण्वंस्तदुपलम्भप्रत्ययानां व्यवहर्तृगतानां करणसाङ्गल्यादीनां शब्दोपलम्भ प्रत्ययानां सामर्थ्याभावं प्रत्येति । कस्मिन् कर्त्तव्ये । तदन्यनिष्पादने श्रयमाणाच्छब्दादन्यस्य ध्वनेर्निष्पादने । किं कारणं ( 1 ) यदि तदुपलम्भप्रत्ययास्तदन्यनिष्पादने समर्थाः स्युस्तदा तत् साधितन्तैः शब्दोपलम्भप्रत्ययैः साधितं ध्वनिरूपमुपलभ्येत । न चोपलभ्यते ।
अथ स्यात् (1) कलकले ते ध्वन्यारम्भका इत्याह । तत्स्वभावा इत्यादि । 171b ध्वनिरहितशब्दजननस्वभावा एव पुनः शब्दोपलम्भप्रत्यया व्याहरत्स्वपि बहुषु कलकले स्वकार्यं शब्दं मुक्त्वा कार्यान्तरं ध्वनिं कथमारभेरन् । नैवारभेरन् । यस्मान्न हि कारणाभेदे कार्यभेदो युक्तः । तस्मिन्नेव कारणे कार्यभेदः शब्दध्वनिलक्षणो न युक्तः । किं कारणं (1) कारणभेदानपेक्षिणः कार्यभेदस्याहेतुकत्वप्रसङ्गादित्युक्तं प्राक् । तस्मात् कलकले वाचका एव श्रूयन्ते न ध्वनयः । ननु यदि कलकले वाचका एव सन्तीत्यभ्युपगम्यते । कथन्तर्हि दूरवर्तिनां ध्वनिमात्रश्रवणं समीपवर्तिनां वाचकानां ध्वनीनां श्रवणमिति ।
1 Don-gshon-du.