SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४८१ तस्माद् गतौ शक्तिप्रतिनियमादिन्द्रियस्यानेकात्मा कलकलो न श्रूयते । ध्वनयः केवलं तत्र श्रूयन्ते चेन्न वाचकाः। न कलकले वर्णपदवाक्यानि श्रूयन्ते । ध्वनीनां केवलानां श्रवणात् । वाचके च प्रतिनियतशक्तीन्द्रियं न तु ध्वनिषु । तत्र। ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमविवक्षितम् ॥२५९॥ न वयं ध्वनि शब्दं च वाचकं पृथग्रूपमुपलक्षयामः। एकदा वर्णानुक्रमश्रवण एकमेव शब्दात्मानं व्यवस्यामः । तत् कथं व्यवहारं व्यवसाय पूर्वकं परिच्छिन्दन्तः प्रवर्तयामः। तस्माद् ध्वनिविशेष एव वर्णाख्य इति । अपि च । स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् । न ध्वनिरतो भिन्नो रूपं सह पृथग् वा । न हि प्रत्यक्षेऽर्थे परोपदेशो गरीयान् । स्यात् । वक्ष्यते चात्र प्रतिषेधस्तृतीये परिच्छेदे। "ह्रस्वद्वयोच्चारणे स्यादि" त्यादिना (३१४६३) । ___यत एवन्तस्मादेकशब्दगतौ शक्तिप्रतिनियमादिन्द्रियस्यानेकात्मा। अनेकशब्दस्वभाव: कलकलो न श्रूयते। श्रूयते च (1) तस्मान्नेन्द्रियसंस्कारोऽपि तु ताल्वादिना शब्दकरणं । तेन यावन्तः शब्दाः कृतास्तावन्त एव श्रृयन्त इति कलकलग्रहणं। ध्वनयः केवलन्तत्र श्रूयन्ते न वाचकाः शब्दा यदि। नेत्यादिना व्याचष्टे। न कलकले वाचकानि वर्णपदवाक्यानि श्रयन्ते। किङ्कारणं (1) ध्वनीनां केवलानामवाचकानान्तत्र श्रवणात्। (२५८). एकगतिशक्तिप्रतिनियमे ध्वनीनामपि कथं युगपच्छवणमिति चेदाह। वाचकेत्यादि। वाचके च शब्दे प्रतिनियतशक्तीन्द्रियमस्माभिरुच्यते। न तु ध्वनिष्ववाचकेषु। तत्रेत्यादिना प्रतिविधत्ते। ध्वनय एव हि विशिष्टा वर्णरूपा वाचकाः । तेभ्यो भिन्नमर्थान्तरवाचकं शब्दरूपमस्तीत्येतत्सत्ताग्राहकप्रमाणाभावाद् अतिबह्वियं श्रद्धेयं । किं कारणं। ___ यतो न वयमवाचकं ध्वनि शब्दं च वाचकं पृथग्रूपमिति ध्वनिभ्यो भिन्नस्वभावमुपलक्षयामः । किन्त्वेकदैकस्मिन् वर्णानुक्रमश्रवणकाले एकमेव शब्दात्मानम्वर्णानुक्रमलक्षणं व्यवस्यामः। तत्कथं पुनर्वनिव्यतिरिक्तं शब्दात्मानमध्यवस्यन्तो परिच्छिन्दन्तः। व्यवसायपूर्वकं निश्चयपूर्वकं ध्वनिभ्यो
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy