SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८० प्रमाणवात्तिकस्ववृत्तिटीका (१।२५८) संस्कृतमिन्द्रियं कस्यचिदेव ग्राहकमिति न युगपत् सर्वश्रुतिरिति। संस्कारविशेषात् श्रुतिनियम इन्द्रियाणां अभ्युपगम्यमाने अनेकशब्दसंघातस्य कलकलशब्दस्य श्रुतिर्न स्यात् । न ह्येकः शब्दः कलकलो नाम, भिन्नस्वभावानां युगपच्छ्रवणात्, स्वभावभेदाश्रयत्वाच्च भेदव्यवस्थितेः। लघुवृत्तेः सकृच्छतिर्धान्तिरिति चेत्, वंशादिस्वरधारागमकावयवानामपि 503a संहारा। (1) तथा शब्दविशेषप्रतिपत्त्यन्यथानुपपत्त्या संस्कारविशेषकल्पना। यदाह। तथैव तद्विशेषोपि विशिष्टश्रवणाद् भवेदिति। तस्मात् संस्कारभेदात् प्रतिविषयम्भिन्नत्वादिन्द्रियस्यैकार्थनियमः। एकस्यैव शब्दस्य ग्रहणं यदि। (२५८) ___ एवं सत्यनेकशब्दसंघाते। विचित्रशब्दमूहात्मके कलकलशब्दे श्रुतिः कथं नैव स्यात्। दृष्टा च। अथापीत्यादिना व्याचष्टे। इन्द्रियस्य ये संस्कारास्ते शब्दानां प्रतिनियतास्तत्रैतस्मिन् संस्कारप्रतिनियमे केनचित् संस्कृतमिन्द्रियं कस्यचिदेव शब्दस्य ग्राहकमिति न युगपत् सर्वशब्दश्रुतिरिति। एवं संस्कारविशेषाच्छ्रतिनियम इन्द्रियाणाम भ्युपगम्यमाने अनेकशब्दसङ्घातस्य कलकलशब्दस्य श्रुतिर्न स्यात् । यस्मान्न ह्येकः शब्दः कलकलो नाम। किं कारणम् (1) भिन्नस्वभावानां वेणुमृदङ्गकाव्यपाठगीतशब्दानां कलकले युगपच्छ्रवणात् । नापि भिन्नस्वभावग्रहणेप्यभेदो यतः स्वभावभेदाश्रयत्वाच्च भेदव्यवस्थितेः।। ___ ननु यदानेकः शब्दः श्रूयते। तदानेकशब्दश्रवणान्यथानुपपत्त्यापीन्द्रियस्या- . नेक: संस्कारः कल्प्यते ततोनेकशब्दश्रवणमविरुद्धमेव। ___ एवम्मन्यते। ये प्रयत्नाभिहतर्वायुभिः संस्कारा आधीयन्ते। ते यदीन्द्रियादभिन्नास्तदा संस्कारवहुत्वं कुतः। इन्द्रियस्यैकत्वाद् (1) अथ भिन्नाः कथं तीन्द्रियं संस्कृतं। तस्य च संस्कारा इति सम्बन्धश्च न सिध्यति ये च निष्पन्ने भवन्ति ते कथन्तत्स्वभावा विरुद्धधर्माध्यासात् । तेन भिन्नाभिन्ना अपि संस्कारा न युज्यन्त इति यत्किञ्चिदेतत्। न कलकले युगपदनेकशब्दग्रहणं किन्तु क्रमेणैव तत्रैकैकः शब्दः श्रूयते। तानि च श्रवणज्ञानानि लघुवृत्तीनि। ततो लघुवृत्तेः कारणात् तेषु क्रमेण गृह्यमाणेष्वपि सकृच्छतिर्धान्तिरिति चेत् । तदा 171a वंशादिस्वरधारायां ये गमकाः स्वरविशेषास्तेषां येऽवयवास्तेषामपि लघुवृत्तित्वेन संहारादेकीकरणात् संकुला प्रतिपत्तिः स्यात् । न त्वसंसृष्टगमकावयवानुक्रमवती
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy