SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता -- ४७६ स्यादेतत् । सन्नपि न सर्वः शब्द उपलभ्यते, संस्कृतस्य संस्कृतेनैवोपलम्भा दिति तत्र न संस्कृतस्योपलम्भः अनाधेषविकारस्य संस्कारायोगात् । .. _इन्द्रियस्य तु संस्कारः शृणुयात् निखिलं च तत् ॥२५॥ तत्र यदि संस्कृतेनैवोपलम्भ इति असंस्कृतेन्द्रियो नोपलभते । यस्येन्द्रियसंस्कारः स सर्वान् शब्दान् युगपद् शृणुयादिति प्रसंगोऽनिवृत्त एव। . संस्कारभेदभिन्नत्वादेकार्थनियमो यदि । अनेकशब्दसंघाते श्रुतिः कलकले कथम् ॥२५॥ प्रथापि शब्दानां संस्काराः प्रतिनियताः, तत्र संस्कारप्रतिनियमे केनचित् व्यापित्वात्। इति हेतोः। सर्वशब्दा युगपदुपलभ्येरन् सर्वदेशावस्थितैश्च पुरुपैरुपलभ्येरन्। किं कारणं (1) योग्येन्द्रियत्वात् पुंसां। विषयस्य शब्दलक्षणस्य नित्यस्य सतो व्यापित्वेन सदा सर्वत्र सन्निहितत्वात् । नित्यत्वादेव चानाधेयातिशयस्य प्रबन्धाच्च । संस्कृतस्येत्यादि। कर्मणि कर्तरि वा षष्ठी। तेनायमर्थः (1) प्रयत्नाभिहतवायुना संस्कृतस्य शब्दस्य संस्कृतेनैवेन्द्रियेणोपलम्भे चाभ्युपगम्यमाने। न यथोक्तदोष इति। - उत्तरमाह। कः संस्कर्ता विकारिणः शब्दस्य। नैव कश्चित। स्यादेतदित्यादिना व्याचष्टे। सर्वकालं सन्नपि न सर्वः शब्द उपलभ्यते 170b सर्वेण पुरुषेण। किं कारणं (1) संस्कृतस्य शब्दस्य प्रयत्नाभिहतेन वायुना संस्कृतेनैवेन्द्रियेणोपलम्भादिति । तत्र तयोर्मध्ये न तावत् संस्कृतस्य शब्दस्योपलम्भः । किं कारणम् (1) अनायविकारस्य शब्दस्य संस्कारयोगात् । इन्द्रियस्य त्वनित्यत्वादाधेयविशेषस्य प्रयत्नाभिहतेन वायुना स्यात् संस्कारः। यदाह (1) . प्रयत्नाभिहतो वायुः कोष्ठ्यो यातीत्यसंशयं (श्लो० शब्द० १२२) कर्णव्योमनि संप्राप्तः शक्ति श्रोत्रे नियच्छति ( , १२४) .. शब्दरूपप्रतिपत्त्यन्यथानुपत्त्या चेन्द्रियस्य शक्तिः कल्प्यते। शक्तिरूपश्च संस्कार इष्यत इति। तत्राह। तदपि संस्कृतमिन्द्रियं शृणुयान्निखिलं निरवशेषं शब्दं । तत्रेत्यादिना व्याचष्टे। यदि संस्कृतेनैवेन्द्रियेण शब्दस्योपलम्भ इति कृत्वा ऽसंस्कृतेन्द्रियः पुरुषो नोपलभते। तदा यस्येन्द्रियसंस्कारः कृतः स सर्वशब्दान् युगपच्छणुयादिति पूर्वः प्रसङ्गोऽनिवृत्त एव । अथ स्याद् (।) यथा शब्दप्रतिपत्त्यन्यथानुपपत्त्यैन्द्रियस्य संस्कारकल्पना
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy