________________
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १/२५७ )
सर्वेषामुपलम्भः स्याद् युगपद् व्यापिता यदि ॥ २५६॥
सर्वत्र व्यापिता यदि युगपदुपलम्भः स्यात्, [न हि ] शब्दः क्वचित्' नास्ति 502b इति सर्वे सर्वदेशावस्थितैश्च युगपदुपलभ्येरन्, योग्येन्द्रियत्वात् विषयसन्निहि
४७८
तत्वादनुपलम्भकत्वाच्च ।
संस्कृतस्योपलम्भे च कः संस्कर्त्ता विकारिणः ।
शब्दस्य मन्दस्य चोत्पत्तेस्तीव्रमन्दादिसम्भव इति न काचित् क्षतिः । स्यादेतद् (1) यथा दूरे रूपं रजोनीहारादिसंसृष्टं गृह्यते समीपे तु तदभावात् स्पष्टं । तथा शब्दोपि ( 1 )
दूरासन्नादिभेदेन स्पष्टास्पष्टः प्रतीयत इति ।
तदयुक्तं । यतो रूप (स्य) रजोनीहारादेस्संसृष्टताग्रहणं यदि तावत्तयोः पृथक् पृथग् ग्रहणन्तदा दूरासन्नवर्त्तनोः पुरुषयोस्तुल्यो रूपप्रतिभासः स्याद् यथावस्थितेन स्वरूपेण ग्रहणात् । अथैकत्वेन तयोर्ग्रहणं संसृष्टताग्रहणं कथमस्पष्टप्रतिभासं ज्ञानं भ्रान्तन्न स्यात् । भिन्नानामेकत्वे ग्रहणात् कथं चैक रूपस्यानेकाकारः प्रतिभासः । तदुक्तं ।
“जातो नामाश्रयोन्यान्यश्चेतसां तस्य वस्तुन (:1 ) एकस्यैव कुतो रूपम्भिन्नाकारावभासि तदिति । " ननु देशकालाव्यापिनः शब्दाः ।
" यस्माच्छन्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितन्तस्य कोध्यवस्येद् विपर्ययं ॥ देशभेदेन भिन्नत्वमित्येतच्चानुमानिकं प्रत्यक्षस्तु स एवेति प्रत्ययस्तस्य बाधकः । पर्यायेण यथा लोके भिन्नान्देशान् ब्रजन्नपि । देवदत्तो न भिद्येत तथा शब्दो न भिद्यते । तस्माद्या सर्वकालेषु सर्वदेशेषु चैकता । प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा सास्य बाधिका । २
तस्माद् व्यापिनः शब्दा इति ।
अत्राप्याह । सर्वेषां पुंसां युगपत्सर्वशब्दोपलम्भः स्यात् तेषां शब्दानां व्यापिता यदि । न हि कश्चिच्छन्दः क्वचिद्देशे नास्ति किन्तु सर्वः शब्दः सर्वत्रास्ति
1 Kumarila.
2 Ibid.