________________
७. अपौरुषेय-चिन्ता
४७७
अप्राप्तग्रहणपक्षेऽयमदोष इति चेत् न । तत्रापि योग्यदेशस्थितिविशेषापेक्षणाद् अयस्कान्तादिवत् । अन्यथा स्पष्टास्पष्टश्रुतिभेदो न स्यात् । सति चोपलम्भप्रत्यये सर्वदेशे तुल्यमुपलभ्येरन् । तस्मात् नाव्यापिनः।
यिज्ञानोत्पत्तिसमाश्रयम्विज्ञानोत्पत्तिसहकारिणं स्वज्ञानजननेऽपेक्षते। किं कारणं (1) सर्वस्य तत्र नित्ये शब्देनुपयोगात् । ___ अपि चेत्यादि (1) यद्यव्यापिता तदा सर्वत्र देशे तेषां शब्दानामनुपलम्भः स्यात्। तथा हि कथमेकदेशत्तिनं शब्दं तच्छून्यदेशस्थितः पुरुष उपलभेत । अप्राप्तग्रहणपक्षेऽयमदोष इति चेत् । अप्राप्त एव श्रोत्रदेशं शब्द: श्रोत्रेन्द्रियेण गृह्यते ततः शब्दशून्यदेशावस्थितोपि शब्दं गृह्णीयादतस्सर्वत्रानुपलम्भदोषो न भवतीति।
नैतदेवं। किं कारणं (1) तत्राप्यप्राप्तग्रहणपक्षेपि न व्यवहितस्य ग्रहणं सम्भवति। किं कारणं (1) तस्य शब्दस्य योग्यदेशे यावत् स्थितिस्तस्यास्तारतम्यस्यापेक्षणादिन्द्रियस्य। किमिव (1) अयस्कान्तादिवत्। यथायस्कान्तस्याप्राप्ताकर्षकत्वेपि नायोग्यदेशावस्थितलोहाकर्षणन्तद्वत्। आदिशब्दाद् आशीविषादिर्दीपाद्युपघातं कुर्वन् गृह्यते। अन्यथेति यदि शब्दस्य योग्यदेशावस्थानन्तद्ग्राहकमिन्द्रियं नोपेक्षत। तदा योग्यदेशावस्थानतारतम्यभेदेन स्पष्टास्पष्टप्रतीतिभेदो न स्यात् । भवति च (1) तस्मात् योग्यदेशापेक्षत्वं । योग्यदेशावस्थितस्याप्राप्तस्य शब्दस्य ग्रहणेपि स्पष्टास्पष्टप्रति भासभेदो न 170a स्यादित्याह। सति चोपलम्भप्रत्यये ताल्वादिव्यापारलक्षणे सर्वदेशे समीपे दुरे च शब्दास्तल्यमपलभ्येरन । न चैवं (1) तस्मात नाव्यापिनः। न त बौ ? रिन्द्रियदेशमप्राप्तस्यैव शब्दस्येन्द्रियेण ग्रहणमिष्यते कथन्तस्य स्पष्टास्पष्टश्रुतिभेदः। तदुक्तं।
"येषामप्राप्त एवायं शब्दः श्रोत्रेण गृह्यते।। तेषामप्राप्तितुल्यत्वं दूरव्यवहितादिषु॥ तत्र दूरसमीपस्थग्रहणाग्रहणे सम (1)
स्यातान्न च क्रमो नापि तीव्रमन्दादिसम्भव "इति। एवम्मन्यते। यस्य स्पष्टास्पष्टप्रतिभासानि सर्वाण्येव विज्ञानान्यभ्रान्तानि तस्यायन्दोषो न बो द्ध स्यास्पष्टप्रतिभासस्य ज्ञानस्य भ्रान्तत्वाभ्युपगमात् । अपरापरदेशोत्पत्त्या चागच्छतः शब्दस्य ग्रहणात् क्रमो गृह्यते कर्णदेशे च तीव्रस्य
- 1Kumarila.