SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४७६ प्रमाणवार्त्तिकस्ववृत्तिटीका ( १/२५६ ) 5022 णानि तदवस्थोपकारिणं 7 सहकारिणम् । ततो लभ्यस्य कार्य उपयोगात् । संकुला प्रतिपत्तिः स्यात् । वक्ष्यते चात्र प्रतिषेधः । तथा शब्दोऽपि यदि किञ्चिद् श्रपेक्ष्य कार्यं कुर्यात्, पूर्वस्वभावनियत इत्येतन्न स्यात् । तस्य अपेक्षाच्च सहकारिणः स्वभावान्तरस्य प्रतिलम्भात् । श्रतिशयप्रतिलम्भाभावेऽपेक्षायोगाद् इत्युक्तं प्राक् । अथार्थान्तरभूतमुपकारं लभते तस्येति सम्बन्धाद्यभावोऽप्युक्तः । चाज्ञेयत्वं उपकाराज् ज्ञानोत्पत्तेः । तस्य तस्माद् एष शब्दो नेन्द्रियं न सन्निकर्षं नात्मानं श्रन्यविज्ञानोत्पत्तिसमाश्रयं किंचित् स्वज्ञानजननेऽपेक्षते । श्रपि च । सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि । तेषां शब्दानां व्यापिताऽव्यापिता वा स्यात् । यद्यव्यापिता तेषां तदा सर्वत्रानुपलम्भः स्यात् । कथं एकदेशवर्त्तिनं तच्छून्यदेशस्थित उपलभेत । पामः । किन्त्वपेक्षन्त एव कारणानि सहकारिणं किं भूतं तद-वस्थोपकारिणं । यथाभिमतकार्यजननस्वभावावस्थोपकारिणं (1) किं कारणं ( 1 ) ततः सहकारिणः सकाशाल्लभ्यस्यातिशयस्य कार्ये जन्ये उपयोगाद् व्यापारात् । तथा शब्दोपि वैदिको यदि किञ्चित् सहकारिणमपेक्ष्य कार्यमात्मविषयं ज्ञानं कुर्यात् । करोतु कः प्रतिषेद्धा (1) केवलं पूर्वस्वभावनियत इति पूर्वस्मिन्नेव स्वभावे स्थित इत्येतन्न स्यात् । किं कारणं ( 1 ) तस्य पूर्व स्वभावस्य प्रच्युतेः । अपेक्षाच्च सहकारिणस्सकाशात् स्वभावान्तरस्यापूर्वकस्य प्रतिलम्भात् । श्रतिशयप्रतिलम्भाभावेऽपेक्षायोगात् । यस्मान्न ह्यनुपर्यपेक्षत इति । मेतत्प्राक् । उक्त श्रथ सहकारिणः सकाशाच्छब्दोर्थान्तरभूतमुपकारं लभते । तदोपकारस्य चार्थान्तरत्वे। तस्यायमुपकार इति सम्बन्धा [द्य ] भावोप्युक्तः । आदिशब्दाद् यदि सम्बन्ध सिद्ध्यर्थं सहकारिकृत उपकारे शब्दकृत उपकारः कल्प्यते तदा तत्राप्यपरस्तत्राप्यपर इत्यनवस्थादोषादयोप्युक्ताः । तस्य च शब्दस्याज्ञेयत्वं प्रसक्तं । किं कारणं (1) सहकारिकृतादेवोपकारादर्थान्तरभूताज्ज्ञानोत्पत्तैः । यत एवन्तस्मात् । एष शब्दो नेन्द्रियं श्रोत्राख्यं (1) नेन्द्रियार्थयोस्सन्निकर्षं । नात्मानं । एतच्च परप्रसिद्धयोक्तं । अन्यच्चेति प्रयत्नादिकं । किम्भूतम् (1)
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy