________________
७. अपौरुषेय - चिन्ता
तत् सत्यप्यावरणे ज्ञापयेयुरिन्द्रियादयः । न चैवम् । तस्मात् तेनाधेयविशेषास्तथा ज्ञायेरन् ।
४७५
स्यादेतत् । एवं नित्त्यानां शब्दानां क्वचित् सत्त्वेऽपि न खल्वेवं नित्यानां शब्दानां कस्मिश्चिद् सति प्रतिशयहानिः ।
तद्, यदि तेषां ज्ञानजननः स्वभावः । सर्वस्य सर्वदा स्वविषयाणि ज्ञानानि सकृद् जनयेयुः, न वा कदाचित् किञ्चिदपि जनयेयुरित्येकान्त एषः । अश्रुतिर्विकलत्वाच्च कस्यचित् सहकारिणः ।
स्यादेतत् । नावरणेन नित्यानां शब्दानमश्रुतिः । श्रपि तु किञ्चिद् एषां प्रतिपत्तौ सहकारिप्रतिनियतम् । तत् कदाचिद कस्यचिद् भवतीति तत्कृतं तेषां कदाचित् क्वचित् श्रवणमिति चेत् ।
काममन्य ( प्रतीक्षाऽस्तु ) नियमस्तु विरुद्धयते ॥ २५५॥
न वै वयं कारणानां सहकारीणि प्रतिक्षिपामः । किन्तु अपेक्षन्त एव कार
तदिति तस्मात्। यद्यावरणेन न विशेष आधीयते तदा सत्यप्यावरणे ज्ञापयेयुर्ज्ञानं जनयेयुरेवेन्द्रियादयः । न चैवं ( 1 ) तस्मात् तेनावरणेनाधेयविशेषा जन्मविशेषा इन्द्रियादय इति गम्यन्ते ।
न खल्वेवन्नित्यानां शब्दानां कस्मिश्चिदावरणविशेषे सत्यतिशयहानिरुत्पत्तिर्वातिशयस्य ।
तदिति तस्मात् । यदि तेषां नित्यानां शब्दानां ज्ञानजननः स्वभावः । सर्वस्य पुरुषस्य सर्वदा सर्वाणि स्वविषयाणि ज्ञानानि सकृज्जनयेयुः । नो चेद् विज्ञानजननस्वभावस्तदा न कदाचित् कस्य ( चि) त्पुरुषस्य किञ्चिद् विज्ञानं जनयेयुरित्येकान्त एषः । कस्यचित् सहकारिणो विकलत्वान्नित्यस्यापि शब्दस्य सर्वकाल - श्रुतिरिति चेत् ।
स्यादेतदित्यादिना व्याचष्टे । अपि तु किंचिदेषां नित्यानां शब्दानां प्रतिपत्तौ प्रतिपत्तिनिमित्तं सहकारि प्रतिनियतं । कस्यचित् किञ्चिदेव वस्तु स्थित्या नियतमस्ति । तत्सहकारि । कदाचित्काले कस्यचिच्छब्दस्य भवतीति यत्कृतं सहकारिकृतमेषां शब्दानां कदाचित् क्वचित् प्रदेशे श्रवणमिति । ( २५४)
काममित्यादि सिद्धान्त वा दी । काममेवमित्यर्थः । अन्यस्य सहकारिण: 169b प्रतीक्षा प्रतीक्षणमस्तु न निवार्यते । केवलं नियमस्तु विरुध्यते । पूर्वस्वभाव एव शब्दः । स्थित इत्ययं नियमो न स्यादुपकारकस्यापेक्षणीयत्वात् ।
न वै वमयमित्यादिनंतदेव व्याचष्टे । न वै कारणानां सहकारीणि प्रतिक्षि