________________
४७४
प्रमाणवार्तिकस्ववृत्तिटीका (१।२५४) ___ प्रावरणभेदेन शब्दादौ श्रुतिमान्द्यपाटवदर्शनात् । अन्यथाऽकिञ्चित्करस्य सन्निधानस्याप्यसन्निधानतुल्यत्वात् । तस्येदमित्यु पसंहारो विकल्पनिर्मित एव स्यान वस्त्वाश्रयः।
न च समारोपानुविधायिन्योऽर्थक्रियाः, न हि माणवको दहनोपचारात् पाक प्राधीयते । तस्मात् सत्यामपि कल्पनायामतत्परावृत्तयो भावा यथास्वभावस्थिता एव स्युः।
यत्र एवन्तेन कारणेन यदिन्द्रियविषययोर्मध्ये स्थितमावरणं। तत्ताविन्द्रियविषयावतिशाययेदपि । केन प्रकारेण (1) विज्ञानोत्पत्तिवैगुण्यतारतम्येन । अपिशब्दः सम्भावनायां सम्भाव्यतेयमर्थो न ह्यत्र किञ्चिद् बाधकमस्तीति ।
ननु सन्निहितेनावरणेन द्वितीयादिक्षणे तद् द्रव्यं ज्ञानजननासमर्थञ्जन्यते (1) न तु सम्पर्कक्षण एवानुपकारात्। ततश्च प्रथमे क्षणे तद् द्रव्यमावरणसन्निधानेपि दृश्यं स्यात्। ज्ञानजननसामर्थ्यस्याप्रतिबन्धात्।
नैष दोषः(1)यो ह्यावरणक्षणस्य जनको दृष्टः स आद्रियमाणस्यापि क्षण169 स्यासमर्थस्यैव जनको दृष्टो यथा द्विती'यादिषु क्षणेषु (1) तेनादावप्यावरणक्षण
जनक आब्रियमाणक्षणमसमर्थं जनयेद् (1) अत एवोच्यते (1) अचिन्त्यत्वाद्धेतुप्रत्ययसामर्थ्यस्येति । तेन कुतः प्रथमक्षणे द्रव्यस्यावरणसन्निधाने दर्शनं स्यात् । तारतम्यग्रहणे चायमर्थ उपदर्शितः (1) वैगुण्यमादावर्थस्यावरणकारणेत्रापि कृतं । द्वितीयादिक्षणेषु तदावरणमतिशयमाधत्त इति।। __स्यादेतद् (1) आवरणस्य वैगुण्याधाने सामर्थ्यमन्वयव्यतिरेकाभ्यामनु गन्तव्यं (1) न चान्वयव्यतिरेको विद्यते इत्याह। आवरणभेदेनेत्यादि। कर्पटपटकुड्यादि व्यवधानभेदेन शब्दादौ शब्दगन्धस्पर्शेषु। श्रुतिग्रहणमुपलक्षणार्थं । तेन श्रवणदर्शनादीनां मान्द्यतत्पाटवयोर्दर्शनादावावरणसामर्थ्यमनुगम्यते । अन्यथा यद्यावरणेन विशेषो नाधीयते। तदा तस्यावरणस्याकिंचित्करस्य यत्सन्निधानन्तस्य सन्निधानस्याप्यसन्निधानतुल्यत्वात् । तस्य शब्दस्येदमावरणमित्युपसंहारः सम्बन्धो विकल्पनिर्मित एव स्यान्न वस्त्वाश्रयः।
विकल्पारोपितार्थक्रियाश्रयो भविष्यतीति चेदाह । न चेत्यादि । न च समारोपानुविधायिन्यो न विकल्पसमारोपितार्थाश्रया अर्थक्रियास्तासाम्वस्त्वाश्रयत्वात्। यस्मान्न हि माणवको दहनोपचारादग्निर्माणवक इत्युपचारात् पाके साध्ये आधीयते नियुज्यते। यत एवन्तस्मात् सत्यामपि कल्पनायामतत्परावृत्तयो भावाः। तया कल्पनया परावृत्तिर्येषान्ते तथा। तदभावादतत्परा वृत्तयः किन्तु यथास्वभाववृत्तय एव स्युः। यथास्वभावं वृत्तिर्येषामिति विग्रहः ।