________________
७. अपौरुषेय-चिन्ता
४७३
ऽव्यवहिताऽन्योन्यस्योपकारिणः । अव्यवधानदेशयोग्यतासहकारित्वात् तेषां अन्योन्यातिशयोत्पत्तेः। व्यवधाने सति हेतोरभावात् समर्थक्षणानन्तरानुत्पत्तेः विज्ञानानुत्पत्तिः। तस्मात् पूर्वोत्पन्नस्य समर्थस्य निरोधात् । सति च कुड्येऽन्यस्योत्पित्सोः कारणाभावेनानुत्पत्तेः कार्यकारणज्ञानानुत्पत्तिरिति कुड्यादय आवरणं' ज्ञेयाः। न पुनः प्राक् प्रतिबन्धात् । - अथवा भावानां क्षणिकानामन्योन्योपकारोऽचिन्त्यत्वाद् हेतुप्रत्यय सामर्थ्यस्यासर्वविदा।
तेन यदिन्द्रियविषययोर्मध्ये स्थितमावरणं विज्ञानोत्पत्तिवैगुण्यतारतम्येन तद् अतिशाययेदपि।
soib
वा स्यादशक्तस्वभावो वा। तत्र शक्तस्वभावस्य नित्यं कार्यजननं स्यादजननमन्यस्येत्यशक्तस्वभावस्य स्यादित्युक्तं प्राक् । ते च विषयेन्द्रियादयः। तेन प्रतिघातिना कुड्यादिनाऽव्यवहिता यदा भवन्ति तदान्योन्यस्योपकारिणः (1) किं कारणम् (1) अव्यवधानेत्यादि। न विद्यते व्यवधानं यस्य देशस्य सोव्यवधानदेशस्तस्य योग्यता सामर्थ्यन्तत्सहकारित्वात् तेषां विषयादीनामन्योन्यातिशयोत्पत्तेः। तेषां पुनरालोकादीनां कुड्यादिकृते व्यवधाने सति । अव्यवधानदेशयोग्यतालक्षणस्य हेतोरभावात् समर्थक्षणान्तरानुत्पत्तेः कारणाद् घटादिज्ञानानुत्पत्तिः। यत एवं क्षणिकेषु न सर्वकालमेकस्वरूपानुवृत्तिस्तस्मात् पश्वोत्पन्नस्य समर्थस्येन्द्रियादिक्षणस्य स्वरसत एव निरोधात् । सति च व्यवधायके कुड्येन्यस्योत्पित्सोः समर्थस्य क्षणस्य यथोक्तकारणाभावेनानुत्पत्तेर्ज्ञानकारणवैकल्यमतः कारणवैकल्यात्। घटादिषु कुड्यादिव्यवहितेषु ज्ञानानुत्पत्तिरिति कृत्वा कुड्यादय आवरणमुच्यते। न पुनः प्राग विज्ञानजननयोग्यस्य घटा दे: प्रतिबन्धात् । किङ्कारणम् (1) तस्य घटादेर्योग्यस्वभावे स्थितस्य कुड्यादिसन्निधानेपि स्वभावादप्रच्युतेः । यस्समर्थः स समर्थ एव । न तस्यान्यथात्वं कर्तुं शक्यते। तदेवं क्षणिकेषु पदार्थेषु यथोक्तविधिनातिशयमकुर्वदप्यावरणमुच्यते। ___अधुनातिशयकरणेनैवावरणमित्याह। अथवेत्यादि। सम्भवत्यपि भावानां घटादीनां क्षणिकानामन्योन्योपकारः कुड्यादिकृतोप्युकार: सहकारिकृते उपकारे विवादाभावात् । न त्वावरणमिन्द्रियविषयाभ्यां दूरवति। तत् कथमिन्द्रियविषयावुपकरोतीत्याह। अचिन्त्यत्वादित्यादि। नैवं चिन्तयितुं शक्यं दूरदेशवावरणं कथं विषयस्योपकारकं । दूरवत्तिनाप्ययस्कान्तेनायसः समाकर्षणात्। हेतुरुपादानकारणं। प्रत्ययः सहकारिकारणन्तयोः सामर्थ्यस्याचिन्त्यत्वादसर्वविदाऽसर्वज्ञेन।