________________
४७२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२५४)
नापि तस्योपलभ्यात्मनः किञ्चिदुपलम्भावरणं सम्भवति। तस्य सतोऽपि तदात्मानमखंडयतः सामर्थ्यतिरस्कारायोगात्। न हि तत्र अतिशयोत्पादनासमर्थः किञ्चित्करो नाम । अकिंचित्करश्चावरणं अन्यद्वेति विचारितप्रायमेतत् । कुड्यादयो घटादीनां' कं अतिशयं उत्पादयन्ति कं वा खण्डयन्ति येनावरणमिष्यते।
न ब्रूमः ते किञ्चिद् अतिशाययन्तीति । अपि तु न सर्वे घटक्षणाः सर्वस्य इन्द्रियज्ञानहेतवः। परस्परसहितास्तु विषयेन्द्रियालोकाः, एकेन विशिष्टक्षणान्तरोत्पादात् विज्ञानहेतवः । अनुपकार्यस्य अनपेक्षायोगात्। शक्तस्वभावस्य नित्त्यं जननं प्रजननं वाऽन्यस्य सर्वदा स्यादित्युक्तम् । ते च प्रतिघातिनाऽन्येना
हि स नित्यः स्याद् न कुतश्चिदपि ज्ञानजननलक्षणादपि सामर्थ्यात् प्रच्यवेत् । किं कारणम् (1) तस्य ज्ञानजननसामर्थ्यस्य तदात्मकत्वान्नित्यशब्दस्वभावात् । नापि शब्दाज्ज्ञानजननसामर्थ्यमर्थान्तरं यस्मादर्थान्तरत्वस्य प्रागेव निषिद्धत्वात् । "भावानुपकारकत्वप्रसङ्गा”दित्यत्रान्तरे।
स्तिमितेन वायुनावरणान्नित्यं नोपलभ्यन्त इति चेदाह। नापीत्यादि। तस्य बाह्यस्योपलभ्यात्मनो दृश्यस्य किञ्चिदुपलम्भावरणं सम्भवति । तत्सिद्धौ प्रमाणाभावात्। सतोपि वा विद्यमानस्यापि चावरणस्य तदात्मानमखण्डतयो नित्यशब्दात्मानमप्रच्यावयतः। सामर्थ्यतिरस्कारा योगात्। ज्ञानजननशक्त्यभिभवायोगात्। यस्मान्न हि तत्र शब्दात्मन्यतिशयमनुत्पादयन्नावरणाभिमतः किञ्चित्करो नाम। अकिंचित्करश्चार्थः कः कस्यावरणं ज्ञानविबन्धकमन्यद्वेति प्रकारान्तरेणोपघातकं नैवेति यावत। निलोठितप्रायमेतत। विचारितप्रायमेतत. प्राक् । अकिञ्चित्करस्यावरणत्वन्दृष्टमिति कथयन्नाह परः। कुड्यादय इत्यादि। कुड्यादयो घटादीनां कमतिशयमुत्पादयन्ति। कम्वा सामर्थ्यातिशयं खण्डयन्ति येनावरणमिष्यन्ते। तस्माद् यथा तेऽतिशयमनुत्पादयन्तो घटादीनामावरणमिष्यन्ते। तथा नित्यस्यापि शब्दस्य किंचिदावरणम्भविष्यतीत्यभिप्रायः ।
न ब्रूम इत्यादिना परिहरति। ते कुड्यादयः कञ्चिद् घटादिकमतिशाययन्ति विशिष्टं स्वभावं कुर्वन्तीति न ब्रूमः । कथन्तावरणमुच्यन्त इत्याह। अपितुन सर्व इत्यादि। न सर्वघटक्षणास्सर्वस्य पुरुषस्येन्द्रियज्ञानहेतवः (1) किन्तर्हि (1) परस्परसहितास्तु विषयेन्द्रियालोकाः । परस्परतो विशिष्ट
क्षणान्तरोत्पादात् कारणाद् विज्ञानहेतवः। किं कारणम् (1) अनुपकार्यस्य 168b परैरनाधेयातिशयस्य परम्प्रत्यनपेक्षा योगात । परश्चानाधेयातिशयः शक्तस्वभावो