________________
७. अपौरुषेय-चिन्ता
४७१ सति वा तद् अनित्त्यं वा स्यात् नित्यं वा।
अनित्यं यत्नसम्भूतं पौरुषेयं कथन्न तत् । अवश्यं हि अनित्यं कुतश्चिद् हेतुमद् भवति । तद्वत्ताया आकस्मिकत्वे देशादिनियमे न स्यादित्युक्तम्। __ तच्च प्रयत्नप्रेरितान्यविगुणकरणानां दृष्टं अन्यथा वा न दृष्टम् । तथा कारणधर्मदर्शनात् पुरुषव्यापार एव कारणमतः पौरुषेयं स्यात् ।
नित्योपलब्धिनित्यत्वेऽप्यनावरणसम्भवात् ॥२५४॥ अथ तच्छब्दरूपं नित्यं स्यादुपलभ्यस्वभावं च। स स्वभावस्तस्य कदाचिन्नापैतीति नित्यमुपलभ्येत । यदि न कुतश्चिदपि सामर्थ्यात् प्रच्यवेत् । एवं स हि नित्त्यः स्याद् । तस्य ज्ञानजननसामर्थ्यस्य जननात्मकत्वात् । अर्थान्तरत्वस्य प्रागेव निषिद्धत्वात्।
विशेषप्रतिभासादेव पदवाक्यानाम्परस्परम्भेदस्तदभावे स न स्यादिति यावत् ।
नाप्यक्रममित्यादि। न विद्यते वर्णक्रमो यस्मिन् शब्दरूपे तदक्रम शब्दरूपम्वर्णेभ्योन्यन्न पश्याम इत्युक्तं । तस्यावर्णरूपसंस्पर्शिनः कस्यचिदप्यप्रतिपत्तेरित्युक्तत्वात्।
जातिस्फोटस्तु जात्यभावादेव निरस्तः (1) सति वा तस्मिन्नवर्णक्रमे शब्दरूपे। तच्छब्दरूपमनित्यम्वा स्यात् नित्यम्वा। वस्तुनो गत्यन्तराभावात् । यद्यनित्यन्तदा पुरुषप्रयत्नसम्भूतं पौरुषेयं कथं न तद्वाक्यं । पौरुषेयमेव स्यात् । अवश्यं ह्यनित्यमुत्पत्तिमदिति कुतश्चित् स्वहेतोर्भवति। तथा ह्याकस्मिकत्वे 168a हेतुरहितत्वे सत्व (? शब्द) स्याभ्युपगम्यमाने देशादिनियमः। आदिशब्दात् कालवस्तुनियमो न स्यादित्युक्तं।
तच्च वाक्यं पुरुषप्रयत्नेन प्रेरितान्यविगुणानि करणानि येषां पुंसान्तेषाम्भवद् दृष्टं पुनरन्यथा वक्तुकामताभावे करणवैगुण्ये वा नेति। न दृष्टमिति पुरुषव्यापारान्वयव्यतिरेकलक्षणस्य कारणधर्मस्य वाक्यं प्रति दर्शनात पुरुषव्यापार एव वाक्यस्य कारणमतः कारणात् पौरुषेयमपि वाक्यं। (२५३)
अथ नित्यन्तद् वाक्यं तदास्य नित्यत्वेभ्युपगम्यमाने नित्योपलब्धिर्वाक्यस्य स्यात् । किं कारणं (1) तस्य नित्यस्य सतो नावरणसम्भवात् । आवरणाभावात् ।
अथेत्यादि व्याख्यानं। अथ तच्छब्दरूपम्वाक्यात्मकन्नित्यं स्यादुपलभ्यस्वभावं च । उपलभ्यः स्वभावोस्येति विग्रहः। (1)2 स उपलभ्यः स्वभावस्तस्य वाक्यस्य कदाचिन्नापैति न हीयत इति कृत्वा नित्यमपलभ्येत। यस्मादेवं