________________
४७०
प्रमाणवात्तिकस्ववृत्तिटीका (१।२५३) वर्णानां चाक्रमेणाप्रतिपत्तेः कुतोऽक्रममेकबुद्धिग्राह्यं नाम । न चान्त्यवर्णप्रतिपत्तेरूद्धमन्यमशकलं शब्दात्मानमुपलक्षयामः (1)
(नापि स्वयमयं वक्ता विभावयति । समाप्तफलः शब्दोन्त्यायां बुद्धौ भातीत्येवं यदि स्यात् । साधु स्यादित्येवं कल्याणकामतया मूढमतिः स्वप्नायते। joob नहि स्मर्यमाणयोरपि पदवाक्ययोः वर्णाः क्रमविशेषेण विभाव्यन्ते । अक्रमायां
बुद्धौ पौर्वापर्याभावाद् । पदवाक्यभेदानां च तत्कृतो भेदो न स्यात् ।
नापि वर्णाक्रमं शब्दरूपं पश्याम इत्युक्तम् ।
वर्णानां चाक्रमेणाप्रतिपत्तेः क्रमेणैव प्रतिपत्तेः कारणात् कुतोक्रममेकबुद्धिग्राह्यम्वाक्यन्नाम।
अथ स्याद् (1) अन्त्यवर्णप्रतिपत्तेरुध्वं मानसेन ज्ञानेन निरवयवस्य वाक्यस्यावधारणमस्त्येवेति चेदाह। न चेत्यादि। अन्त्यवर्णप्रतिपत्तेरूद्धमन्यम्वर्णव्यतिरिक्तमशकलमखण्डं निविभागमित्यर्थः । शब्दात्मानं न चोपलक्षयामः ।।
नापि स्वयमयम्वक्ता यथोक्तं शब्दात्मानम्विभावयति। तथा हि तदापि वाक्यम वधारयन् वर्णानुक्रममेव बाह्यरूपतयावधारयति (1) न तु वर्णव्यतिरिक्तन्निविभागम्वाक्यमवधारयति। केवलमयं वक्ता यथा मयोक्तं समाप्तकलः शब्दोन्त्यायाम्बद्धौ भातीत्येवं यदि स्यात्। साधु मे स्यादिति या कल्याणकामताभिप्रेतार्थाशंसा। तया मूढमतिः स्वप्नायते। अस्वपन्नपि स्वप्ने व्यवस्थितमिवात्मानमाचरति। अधिकरणाच्चेति वक्तव्यमिति सप्तम्यन्तादपि । क्यज्। क्यज् विधानेप्येतद्वक्तव्यं स्मर्यत इत्येके। अन्ये त्वाहुः (1) स्वप्नवानेवाभेदोपचरात् । अथवा मत्वर्थीयस्यार्श आदिदर्शनेन विधानात्। स्वप्नशब्देनोक्तः। तेन कर्तुरेवोपमानात् क्यज् प्रत्ययः। सुप्त इवाचरति स्वप्नायत इति यावत् । अनेनोपहसति।
स्मरणज्ञानेन तर्हि पदवाक्यमक्रमं गह्यत इति चेदाह। न हीत्यादि। न हि स्मर्यमाणयोरपि पदवाक्ययोः सम्बन्धिनो वर्णाः पदवाक्ययोर्भेदव्यवस्थापकाः क्रमविशेषमन्तरेणाक्रमायामेकस्यां बुद्धौ न हि विभाव्यन्ते किन्त्वनुभवक्रमवत् स्मरणमपि क्रमेणैवेति यावत् । यदि त्वक्रमायामन्त्यायां बुद्धौ पदवाक्ययोर्वर्णाः क्रमविशेषमन्तरेण विभाव्यन्ते। तदा तस्यामक्रमायां बुद्धौ पौर्वापर्याभावाद् वर्णा युगपदेव वि भाव्यन्त इति कृत्वा तेषां पदवाक्यभेदानां पदभेदानां वाक्यभेदानां च तत्कृतो वर्णपौर्वापर्यप्रतिभासकृतो भेदो विशेषो न स्यात्। वर्णानां क्रम
1 Restored.