SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४६६ लश्रुतिर्न वा कस्यचित् (0) समस्तवर्णसंस्कारवत्याऽन्त्यया बुद्ध्या वाक्यावधारणमित्यपि मिथ्या। तस्यावर्णरूपसंस्पर्शिनः कस्यचित् कदाचिदप्रतिपत्तेः। णात् । न हि व्यङग्यव्यञ्जकयोः सादृश्यम्वर्णावर्णात्मकत्वेन विसदृशत्वात् तत्कथं वाक्ये वर्णात्मग्रहणाभिमान इति यत्किञ्चिदेतत् । अन्ये त्वन्यथा व्याचक्षते। अथोपकार्योपकाराभावेनायुक्तमपि क्रमवद् व्यञ्जकानुविधानमक्रमस्य वाक्यस्याभ्युपगम्यते। ततश्चासकलश्रुतिरित्यत आह । सकलेत्यादि। खण्डशः श्रोतुरपि सकलस्य निष्कलस्य वाक्यस्य श्रुतिः स्यात् ।। अथ नेष्यते तदा न वा कस्यचित् पुंसः स्यात्। सकलवर्णाश्राविणोपि न वा निष्कलस्य वाक्यस्य श्रुतिः स्यात्। अन्त्यावस्थायामपि युगपद् वर्णानामश्रवणेन भागस्यैव श्रवणात्। अथ स्याद् (1) यथा श्लोक एकदा प्रकाशितो नावधारितोन्यदा प्रकाशने स्ववधारणसहो भवति । पुनः पुनः प्रकाशने त्ववधार्यते। तथा वाक्यं पूर्वध्वनिभावानभिव्यक्तमपि नावधारितं। तेन पूर्वपूर्ववाक्याभिव्यक्त्याहितैस्तु संस्कारक्यिावधारणप्रति प्रत्ययभूतैरन्त्यवर्णश्रवणकाले तदवधार्यते। तस्माद् वर्णेनानुक्रमवताऽक्रमस्य वाक्यस्य व्यक्तियुज्यत एव। तदुक्तं । “यथानुवाक: श्लोको वा सोढत्वमुपगच्छति। आवृत्त्या न तु स ग्रन्थप्रत्यावृत्तिनिरुच्यते॥ प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणस्त था। ध्वनिः प्रकाशिते शब्दे स्वरूपमवधार्यते ॥ नादैराहितबीजायामन्त्येन ध्वनिना सह। आवृत्तपरिपाकायाम्वुद्धौ शब्दोवधार्यत" इति ॥' एतदेवाह। समस्तेत्यादि। समस्तैर्वर्णैः प्रत्येकं वाक्याभिव्यक्तिपूर्वका ये कृताः संस्कारा विद्यन्ते यस्या बुद्धस्सा तथा। तया समस्तवर्णसंस्कारवत्यान्त्यया ऽन्त्यवर्णविषयया बुद्ध्या निष्कलस्य वाक्यस्यावधारणमित्यपि कल्पना मिथ्या। 167b किं कारणं (1) तस्य वाक्यस्यावर्णरूपसंस्पर्शिनः। वर्णरूपसंस्पर्शरहितस्य श्रोत्रज्ञाने कस्यचित् पुरुषस्य कदाचिदप्यप्रतिपत्तेः प्रतिवर्णोच्चारणं प्रतिभासाभाव इत्यर्थः श्लोकस्य तूच्चारणं प्रतिभासोस्ति। अथ स्याद् (1) वर्णात्मकमेव वाक्यन्तेनेन्द्रियज्ञानविषयमेवेत्यत आह । 1Kumarila.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy