________________
४६८ प्रमाणवात्तिकस्ववृत्तिटीका (१।२५३) व्यञ्जकेनाक्रमस्य व्यक्तिः प्रत्युक्ता। व्यक्ताव्यक्तविरोधात्। अवर्णभागेव वाक्येऽसकलाविणो वाक्यगतिर्न स्यात् (1) एकस्य स (? श) कलाभावात् सक'
तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु । शब्दकालस्वभावश्च नादभेदाद् विभिद्यत" इति ॥'
अत्रोत्तरमाह। अनुक्रमवतेत्यादि। एवम्मन्यते। अवधारणरूपा वाभिव्यक्तिरनवधारणरूपा वा (1) तदावधारणरूपाभिव्यक्तिरक्रमस्य वाक्यस्यानुक्रमवता व्यञ्जकेन प्रत्युक्ता प्रतिक्षिप्ता। किं कारणं (1) व्यक्ताव्यक्तरूपयोरवधृतानवधृतरूपयोरेकत्र विरोधात्। न ह्यवधृतरूपादन्यदनवधृतं रूपान्तरमेकस्यास्ति येन तत्पश्चाद् व्यज्येत। तेन यदुच्यते। “प्रथमेन वर्णेनाभिव्य
क्तस्यानवधारणादवधारणार्थमन्येषाम्वर्णानां व्यापार" इति तदपास्तं। प्रथ167a मेनैव वर्णेनावधारणरूपया व्यक्तेनिष्पादितत्वात्। अनवधारण' रूपायां व्यक्तौ
समस्तवर्णेत्यादिनोत्तरम्वक्ष्यति। ___अथ स्याद् (1) वणेभ्यो भिन्नमेव वाक्यं प्रतिभासते न तु ध्वनिसंसृष्टं। तदुक्तं (1)
कैश्चिद् ध्वनिरसम्वेद्यः स्वतन्त्रोन्यैः प्रकल्पित इति ।
अत्राप्याह। अवणेत्यादि। अविद्यमाना वर्णरूपा भागा यस्मिन् वाक्ये तस्मिन्नभ्युपगम्यमाने पुरुषस्यासकलाविणो समस्तवर्णानुक्रमश्राविणः खण्डशः श्रोतुरित्यर्थः। कदाचिदप्यसकलस्य वाक्यस्य गतिः श्रुतिर्न स्यात्। किं कारणं (1) वर्णव्यतिरिक्तस्यैकस्य वाक्यस्य शकलाभावाद् भागाभावात् । भवति च लोके कतिपयवर्णश्रवणे पूर्ववाक्यभागश्रवणप्रतीतिः। अथ वर्णैर्भागवतो वाक्यस्याभ्युपगमात्। कतिपयवर्णश्रवणे पूर्ववाक्यभागश्रवणमिष्यते। __ तदयुक्तम् (1) एकत्वाद् वाक्यस्य यदि पूर्वभागश्रवणन्तदा सकलश्रुतिः सर्वात्मना वाक्यस्य श्रवणं स्यात् । पूर्वभागाव्यतिरेकात् । अथ न सकलश्रुतिस्तदा न वा कस्यचितिः स्यात् । पूर्वस्यापि भागस्य श्रुतिर्न स्याद् वाक्यव्यतिरिक्तत्वादिति।
तेन यदुच्यते म ण्ड ने न। “व्यञ्जकसादृश्याच्च वाक्ये तदात्मग्रहणाभिमानस्तेन नाश्रवणं सकलश्रवणं वेति" (1)
तदपास्तं। सकलासकलवर्णभागप्रतिपत्तिकाले निष्कलस्य वाक्यस्याश्रव.
1 Kumārila.