________________
७. अपौरुषेय-चिन्ता
४६७
(1) तदविशेषेप्यनुक्रमकृतत्वाद् वाक्यस्यानुक्रमवती वाक्यप्रतीतिः। वर्णानुक्रमोपकारानपेक्षणे तैर्यथाकथञ्चित् प्रयुक्तरपि यत्किंचिद् वाक्यं प्रतीयेत। विनापि वा वणरनुक्रमवद्भिर क्रमस्योपयोगात्। अक्रमेण च व्याहर्तुमशक्यत्वात्। गत्यन्तराभावाच्च । नैव वाक्ये वर्णा (:) सन्ति तदेकशब्दरूपं व्यंजकानुक्रमवशादनुक्रमवद् वर्णविभागवच्च प्रतिभातीति चेदन्न (न) क्रमवता
तेः । न हि क्रमप्रतिभासं वर्णकृतं मक्त्वाऽपरो क्रम प्रतिभासस्सम्पद्यते श्रोत्रज्ञाने। इतश्च नाक्रमस्य वाक्यस्य प्रति भासः। यतस्तदविशेषेपि त्वन्मते न तेषां वर्णानामविशेषेपि वर्णानुक्रमकृतत्वाद् वाक्यभेदस्यानुक्रमवती वाक्यप्रतीतिर्न युगपद्भाविनी। वर्णानुक्रमोपकारानपेक्षणे। वर्णानुक्रमकृतमुपकारं वाक्यं यदि नापेक्षेत। तदा तैर्वर्णैर्यथाकथंचित् तत्क्रमैरन्यक्रमैरपि प्रयुक्तैर्यत्किञ्चिद् वाक्यं प्रतीयत। सरोस्तीति प्रयुक्ते रसोस्तीति प्रतीयेत। वर्णोपकारानपेक्षत्वाद् विनापि वा वर्णैर्वाक्यं प्रतीयेत। न च वर्णोपकारापेक्षया वाक्यप्रतीतिः । किं कारणं । तैर्वणरनुक्रमवद्भिरस्य वाक्यस्योपकारायोगात्। क्रमवद्भिः क्रमवानेवोपकारः कर्त्तव्यस्तथा चोपकार्यस्य क्रमवत्त्वं स्यात् (1) न चैवमिष्यते। ___ अक्रमा एव वर्णा वाक्यस्योपकारका भविष्यन्तीति चेदाह। अक्रमेण चेत्यादि। अक्रमेण वर्णानां व्याहर्तुमुच्चारयितुमशक्यत्वात्। न च क्रमाक्रमोपकारव्यतिरेकेणान्यः प्रकारोस्तीति गत्यन्तराभावान्नोपकारका वर्णा वाक्यस्येति स्थितं। नैव वाक्ये वर्णाः सन्ति । नैव वर्णात्मकं वाक्यं । किन्तर्हि वर्णेभ्योर्थान्तरमेकमेव शब्दरूपं वाक्यं । व्यञ्जका ध्वनयोनुक्रमवन्तो विशिष्टेनानुक्रमेण व्यञ्जयन्ति न व्युत्क्रमेण । तदुक्तं ।
"यथानुपूर्वीनियमो विकारे क्षीरबीजयोः।।
तथैव प्रतिपत्तृणान्नियतो बुद्धिषु क्रमः"(1)' । तेन यथाकथञ्चित् प्रयुक्तैरित्यादिरदोष इति।
व्यञ्जकानुक्रमवशात् तदेकमपि वाक्यं व्यक्त्यनुक्रमादनुक्रमवत्। स्फोटरूपाविभागेन वर्णानां नादरूपाणां ग्रहणाद् वर्णविभागवच्च पुरुषस्य प्रतिभाति (1) परमार्थतोनुक्रमवर्णविभागाभ्यां रहितमपि । तदुक्तं।
"नादस्य क्रमजन्यत्वान्न पूर्वो नापरश्च सः। अक्रमः क्रमरूपेण भेदवानिव जायते॥
1Kumarila.