________________
४६६
प्रमाणवात्तिकस्ववृत्तिटीका (११२५३) त्तिवादिनस्तावदयमदोष एव (1) पृथगसमर्थानामप्यवयवानामुपकारविशेषादतिशयवतां कार्यविशेषोपयोगात्। प्रत्येकमवयवेषु समर्थेषु व्यर्था स्यात् अन्यकल्पना।
अथ पुनः (1) एकमेवानवयवं वाक्यं । तत्र (1) एकत्वेपि ह्य भिन्नस्य क्रमशो गत्यसम्भवात् ।
कालभेद एव न युज्यते। न ोकस्य क्रमेण प्रतिपत्तिर्युक्ता। गृहीतागृहीतयोरभेदात्। गृहीतागृहीताभावात्। क्रमेण च वाक्यप्रतिपत्तिर्दृष्टा। सर्ववाक्याध्याहारश्रवणस्मरणकालस्यानेकक्षणनिमेषानुक्रमपरिसमाप्तेः। वर्णरूपासंस्पर्शिनश्चैकबुद्धिप्रतिभासिनः शब्दात्मनोऽप्रतिभासनात्। वर्णानुक्रमप्रतीतेः
पपद्यत इत्यत आह । अर्थान्तरानुत्पत्तश्च। पूर्वकादसमर्थरूपादर्थान्तरस्य समर्थस्य रूपस्यानुत्पत्तेश्च। नित्यत्वाद्वर्णानामिति भावः।
अनित्यवादिनोप्ययन्दोषः किन्नेत्याह। शब्दोत्पत्तीत्यादि। शब्दोत्पत्तिवादिनस्तावदयमनन्तरोक्तो न दोष एव। किङ्कारणं (1) तस्य वादिनः पृथगसमर्थानामप्यसमर्थानां पुनः पुरुषप्रयत्नकृतादुपकारविशेषात् सहिंतावस्थायामर्थप्रतिपादनसामर्थ्यलक्षणेनातिशयेनातिशयवतामर्थप्रतीतिलक्षणे कार्यविशेष उपयोगात्। - नित्यवादिनस्तु प्रत्येकमवयवेषु समर्थेष्वेकस्मादप्यवयवादर्थप्रतीतेव्यर्था स्यादन्यस्यावयवस्य कल्पना।
एवन्तावत्सावयववाक्यपक्षे दोष उक्तः ।
अथ पुनरेकमेवानवयवम्वाक्यं स्यात्। तत्रैकत्वेपि हि वाक्यस्याभ्युपगम्यमाने। तस्याभिन्नस्य निर्भागस्य क्रमशः क्रमेण गत्यसम्भवात्। ग्रहणासम्भवात् कालभेद एव न युज्यते। यतो न ोकस्य क्रमेण प्रतिपत्तियुक्ता। किं कारणं (1) गृहीतागृहीतयोरभेदात्। न हि तस्य गृहीतात् स्वभावादगृहीतोन्यः 6 स्वभावोस्ति यस्य क्रमेण ग्रहणं स्यात् । भवत्वक्रमेण वाक्यस्य ग्रहणमिति चेदाह। क्रमेण चेत्यादि । किं कारणं। सर्वस्य वाक्यस्य यो व्यवहारकालो वक्तुः श्रोतुश्च श्रवणकाल: स्मरणकालश्च। तस्यानेकक्षणनिमेषानुक्रमसमाप्तेः। अनेक: क्षणो
यस्मिन्नक्षिनिमेषे सोनेकक्षणनिमेषः तस्यानुक्रमः परिपाटिस्तेनानुक्रमणोत्पत्तेः 166b कारणात्।
वर्णानामिदं क्रमेण ग्रहणं वाक्यस्य त्वक्रमेणैवेति चेदाह। वर्णेत्यादि । वर्णरूपासंस्पशिनो वर्णरूपव्यतिरिक्तस्यैकबुद्धिक्षणप्रतिभासिनः शब्दात्मनोप्रतिभासनात्। एतदेव कुतः। वर्णानुक्रमप्रतीते : वर्णानुक्रमेणैव वाक्यस्य प्रती