________________
७. अपौरुषेय - चिन्ता
अन्यथा चैकत्वविरोधात् ॥
सकृच्छ्रुतौ च सर्वेषां कालभेदो न युज्यते ।
४६५
मा भूदवयवान्तराप्रतीक्षणे नेकस्मादेवावयवाद् वाक्यार्थसिद्धेरनेकावयवत्वहानिर्वाक्यस्येति । सकृत् सर्वावयवानां श्रवणमिष्येत । तदापि कालक्षेपो न युज्यत एव (1) एकावयवप्रतिपत्तिकाले एव सर्वेषां श्रवणात् । क्रमश्रवणे च पृथगर्थवतां एकस्मादेव तदर्थसिद्धेर' न्यस्य वैयर्थ्यात् (1) सकृच्छ्रुतौ च पृथगर्थेष्वदृष्ट सामर्थ्यानामर्थवत्ता न सिध्यति । सहितेष्वर्थदर्शनावदोषः ( 1 ) न (1) पृथगसतो रूपस्य संहातेप्य ( ? संहतेष्व) संभवादर्थान्तरानुत्पत्तेश्च । शब्दोत्प
अन्ये त्वन्यथा व्याचक्षते । एका वयवप्रतिपत्त्या च वाक्यार्थप्रतिपत्तौ तस्यावयवस्य कालक्षेपश्च न स्यात् । किङ्कारणं । तस्यावयवस्य निःकलात्मनः क्षणे - नैकेन प्रतिपत्तेः । किं कारणम् ( 1 ) एकज्ञानोत्पत्तौ तस्य निर्भागस्यावयवस्य निःशेषावगमात् ।
अन्यथेति यद्येकज्ञानक्षणेन सर्वस्य ग्रहणं न स्यात् तदा गृहीतागृहीतस्वभावयोरेकत्वविरोधात् । विरुद्धयोरेकत्वायोगात् । ( २५२ )
अथ मा भूदयन्दोष इति सकृच्छ्ररुतिरिष्यते । तदा सकृच्छ्रुतौ च सर्वेषामवयवानां कल्प्यमानायां कालक्षेपो न युज्यते । ( २५२ )
1
मा भूवित्यादिना व्याचष्टे । अवयवान्तराणामप्रतीक्षणेनैक स्मावेवावयवाद् वाक्यार्थसिद्धेर्वाक्यार्थनिश्चयात् कारणाद् अनेकावयवत्वहानिर्वाक्यस्येति कृत्वा सर्वेषाम्वाक्यावयवानां सकृच्छ्रवणमिष्यते । तवापि कालक्षेपो न युक्त एव । किं कारणम् (1) एकावयवप्रतिपत्तिकाल एव सर्वेषामवयवानां श्रवणात् । क्रमेण च श्रवणं दृष्टं। क्रमश्रवणे चावयवानां पृथक् पृथगर्थवतां सतामेकस्मादेवावयवा - त्तदर्थसिद्धेर्वाक्यार्थसिद्धेरन्यस्यावयवस्य वैयर्थ्यात् । एतच्चानन्तरमेवोक्तं ।
सकृत्सर्वावयवश्रवणे परन्दोषन्दर्शयन्नाह । सकृच्छ्ररुतौ सर्वावयवानां युगपद्ग्रहणेभ्युपगम्यमाने पृथक् प्रत्येकमर्थेषु वाच्येष्ववृष्टसामर्थ्यानामवयवानां सहितानामप्यर्थवत्ता च न सिध्यति ।
स्यादेतत् (1) सहितेष्ववयवेष्वर्थदर्शनादर्थप्रतीतेः पृथगप्यवयवानामर्थ प्रतीतिजननसामर्थ्यमस्त्यतोयमदोष इति ।
तन्न । किं कारणम् (1) पृथक् प्रत्येकं तेष्ववयवेष्वसतो रूपस्यार्थप्रतिपादनस्वभावस्य संहतेष्वसम्भवात् ।
केवलानामवयवानां यद्रूपन्ततोन्यदेव समुदितानामर्थप्रतिपादनसमर्थं रूपमु
५६
166a