SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४६४ प्रमाणवात्तिकस्ववृत्तिटीका (१।२५२) एकावयवगत्या च वाक्यार्थप्रतिपद्भवेत् ॥२५२॥ परिसमाप्ताथं हि शब्दरूपं वाक्यं (1) ते चावयवास्तथाविधाः पृथक् पृथगिति प्रत्येकं ते वाक्यं । तथा च नानेकावयवं वाक्यमेकावयवप्रतिपत्त्या च वाक्यार्थप्रतिपत्तेरवयवान्तरा (म्प्रत्य)पेक्षा कालक्षेपश्च न स्यात्। तस्य निष्कलात्मनः क्षणेन प्रतिपत्तेरेकज्ञानोत्पत्तौ च निःसे (?शे)षावगमात् । तदा प्रत्येकमवयवानां सार्थकत्वे मिथ्यानेकत्वकल्पना एकस्याप्यवयवस्य परिसमाप्तार्थत्वादवयवान्तरापेक्षा वाक्यस्य न युज्यत इत्यर्थः । यदा चैकावयवगत्या च। एकस्यापि वाक्यावयवस्य ग्रहणे वाक्यार्थप्रतिपत्प्रतीतिर्भवेत् । अथ स्याद् (1) एकावयवगत्यापि सामान्येन 2 वाक्यार्थप्रतीतिर्भवत्येव । यदाह। भर्तृहरिः। “सर्वेषाम्पृथगर्थवत्ता सर्वेषु प्रतिशब्दं कृत्स्नार्थपरिसमाप्तेः । - तथा यदेव प्रथमं पदमुपादीयते तस्मिन् सर्वरूपार्थोपग्राहिणि नियमानुवादनिबन्धनानि पदान्तराणि विज्ञायन्त" इति । तत्कथमुच्यते वृथानेकत्वकल्पनेति । नैष दोषो यस्मात् । विवक्षितार्थविशेषापेक्षयैतदुच्यते। प्रत्येक सार्थकत्वेपि मिथ्यानेकत्वकल्पना। एकावयवगत्या च वाक्यार्थप्रतिपद् भवेदिति। नापि कश्चिदवयवः कारकविशेषस्याभिधायकोन्यश्च क्रियाविशेषस्याभिधायक इति वाक्यावयवानां प्रत्येक सार्थकत्वात् साफल्यं युक्तं। क्रियाविशेषानन्वितस्य कारकविशेषस्याभिधातुमशक्यत्वात्। तदन्वितस्य त्वभिधाने मिथ्यानेकत्वकल्पनेत्यादिदोष स्तदवस्थ एवेति। परिसमाप्तार्थेत्यादिना व्याचष्टे। परिसमाप्तोर्थो यस्य शब्दरूपस्य तत्तथा। ते चावयवा वाक्यगतास्तथाविधा इति परिसमाप्तार्थरूपाः पृथक प्रत्येकं। इति हेतोः प्रत्येकन्तेऽवयवा वाक्यं प्रसक्ताः (1) तथा च नानेकावयवं वाक्यं । अनेकेनावयवेन युक्तमेकम्वाक्यं न स्यादित्यर्थः। प्रत्येकं चावयवानां सार्थकत्वे एकावयवप्रतिपत्त्या समस्तवाक्यार्थप्रतिपत्त्या समस्तवाक्यार्थप्रतिपत्तेरवयवात्तरं प्रति अपेक्षा श्रोतुर्न स्यात् । कालक्षेपश्च न स्यात्। कालहरणेन वाक्यार्थप्रतीतिर्न स्यादित्यर्थः। किङ्कारणं (1) तस्य वाक्यार्थस्य निष्कलात्मनो निविभागस्य क्षणेनकेन प्रतिपत्तेः। एतदेव कुत (1) एकज्ञानोत्पत्तौ तस्य वाक्यार्थस्य नि:शेषागमात् । 1 Bhagavrtti (?)
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy