________________
७. अपौरुषेय-चिन्ता
४६३ यस्यापौरुषेयत्वं साध्येत् (?त)। तदभावाद् वेदाविशिष्टवर्णापौरुषेयत्वमपि प्रथमपक्षे प्रत्युक्तं।
अपि चास्त्वर्थान्तरं वाक्यं तदनेकावयवात्मकं वा स्यादनवयवं वा। 34b अनेकांगिकतात्मत्व पृथक् तेषां निरर्थता । तेपि तस्य बहवोवयवाः पृथक् (प्र) कृत्या यद्यनर्थकाः। अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् ॥२५१॥
अर्थवानेवात्मा वाक्यं । ते चावयवाः स्वयमनर्थकाः। तेषु स आत्मा कल्पनासमारोपितः स्यात् सिंहतादिवत् माणवकादिष्विति। पौरुषेय एव।
अथ माभू (देष) दोष इति-- प्रत्येक सार्थकत्वेपि मिथ्यानेकत्वकल्पना ।
नस्याप्यकृतसंकेतस्यापि पुंसोर्थप्रतीतिर्वाक्यात् स्यात् (।) न च भवति। तस्माद् वर्णेभ्यः संकेतबलादेवार्थप्रतीतेर्भावात् कथमन्यथानुपपत्त्या वाक्यकल्पना। तस्मान्न वाक्यन्नाम किञ्चिवर्थान्तरम्वर्णेभ्यो यस्यान्यस्यापौरुषेयत्वं साध्येत । तवभावाद वाक्याभावाद वर्णा एव केवलमवशिष्यन्ते । ते चाविशिष्टाः सर्वत्र तेषामपौरुषेयत्वसाधने।
वेदनाविशिष्टरूपाणां लौकिकानामपि वर्णानामपौरुषेयत्वं साधयितव्यम् (1) अत्र च प्रथमपक्षे वर्णापौरुषेयत्वसाधनपक्षे प्रत्युक्तं । व्यर्थः परिश्रम इति । (२४६-२५०)
अपि चेत्यादि। अनेकावयवात्मत्वे वाक्यस्य कल्प्यमाने तेषामवयवानां पृथक् प्रत्येकं निरर्थका यदि ।
तेपीत्यादिना व्याचष्टे । तस्य वाक्यस्य बहवोवयवाः पृथक् प्रकृत्या स्वभावेन यद्यनर्थकास्तदा वाक्यमप्यनेकावयवसमुदायात्मकं तद्वदेवानर्थकं । ततश्चातद्रूप इत्यनर्थकत्वेनावाचकरूपेऽवयवसङघाते ताप्यं वाचकवाक्यरूपमर्थवत्त्वमिति यावत् । कल्पितं समारोपितम्भवेत् । सिंहतादिवत्। यथा सिंहो माणवक इत्यादिषपचारेषु। माणवकादिष्वतद्रूपेषु सिंहादिकमारोपितन्तद्वत्।
165b अर्थवानित्यादिना व्याचष्टे । अर्थवानेवात्मा। वाचक एव स्वभावो वाक्यं । ते चावयवा वाक्यस्य स्वयमनर्थकाः। तेषु च स्वयमनर्थकेष्ववयवेषु सोर्थवान् वाक्यात्मा कल्पनासमारोपितः स्यात् । सिंहतादिवत् माणवकादिषु। इति हेतोस्स वाचक आत्मा कल्पनारचितत्वात् पौरुषेय एव । (२५१)
अथ माभूवेष दोष इति प्रत्येकं वाक्य स्यावयवाः वाक्यार्थेन सार्थका इष्यन्ते।