________________
प्रमाणवार्तिकस्ववृत्तिटीका (१।२५०)
तस्य व्यभिचारादनिदर्शनाच्च। वर्णविशेषेपि वाक्याभेदात् प्रतिपत्तिभेदः कार्यभेदः स्यात् वाक्यात् (1)तच्चातीन्द्रियमिति कुतः स्यात्। सन्निधिमात्रेण जननेऽव्युत्पन्नस्यापि स्यात्। तस्मान्न वाक्यं नाम किञ्चिदर्थान्तरं वर्णेभ्यो
स एवायम्वर्ण इति प्रत्यभिज्ञानात् प्रतिवाक्यं वर्णानामविशषोऽभेद: सिद्ध इति चेत्।
नैतदेवं । कि कारणं। तस्य प्रत्यभिज्ञानस्य व्यभिचारित्वात्। दृश्यते हि लूनपुनर्जातेषु केशेषु भिन्नेष्वपि सादृश्यग्रहणाद् विप्रलब्धस्य प्रत्यभिज्ञानं । सादृश्यग्रहणं च सदृशस्य स्वरूपग्रहणं न त्वन्यसदृश इति ग्रहणं । अनिदर्शनत्वाच्चादृष्टान्तत्वाच्च प्रत्यभिज्ञानस्यालिंगस्य। न ह्येकः प्रत्यभिज्ञायमानो वादि
प्रतिवादिसिद्धो दृष्टान्तोस्ति। नापि प्रतिपदं वणकत्वग्राहकं प्रत्यक्षं प्रत्यभिज्ञानं 165a सम्भवति। पूर्वकालसम्बन्धित्वस्येदानीमसन्निहितत्वेनाग्रहणात् । ग्रहणे वा श्रोत्र
ज्ञानवत् स्पष्टप्रतिभासः स्यात् (1) न च भवति (1) तस्मान्न पूर्वकालवर्णग्राहकं। दृश्यमानस्य चेदानीन्तनकालत्वाद् यश्चेदानीन्तनकालसम्बन्धी स्वभावः स कथं पूर्वकालसम्बन्धी। पूर्वापरकालयोः परस्परविरोधात् कथं प्रत्यक्षेण तत्त्वग्रहण उच्यते। सन्निहितविषयं च प्रत्यक्षमिष्यते (1) न च वर्णस्य सन्निधानं सम्भवति सांशत्वात । अन्त्यवर्णभागकाले च पूर्ववर्णभागानामसत्त्वात्। तेन न वर्णेषु प्रतिपदमेकत्वग्राहकं प्रत्यक्षं प्रत्यभिज्ञानं सम्भवति। _तस्मात् स्थितमेतत् प्रतिवाक्यं भिन्ना एव वर्णास्तेषामेव भेदार्थप्रतीतेआंद इति।
ननु वर्णा निरर्थका इत्युक्तन्तत्कथन्तेषामेव भेदादर्थप्रतीतेर्भेद इत्युच्यते।
सत्त्यं । सन्तो वर्णा निरर्थका विकल्पविषयास्तु सामान्यरूपा एव प्रतिवाक्यं भिन्ना वर्णा वर्णस्वलक्षणा भेदेनाध्यस्ता वाचका इष्यन्ते । तेन वर्णानामेव भेदादर्थप्रतीते द इत्युच्यते। यदि तु वर्णभेदादयमर्थप्रतीतिभेदो नेष्यते किन्तु वर्णाविशेषेपि (1) ततो व्यतिरिक्तस्य वाक्यस्य भेदादर्थप्रतिपत्तिभेदः (1) स एव कार्यभेदः स्यात्। सा चार्थप्रतीतिर्वाक्याद् भवेत्। तच्च वाक्यमतीन्द्रियम्वर्णव्यतिरेकेणेन्द्रियबुद्धावप्रतिभासनात् । इति एवं कुतः स्यात् । वाक्यात् स प्रतीतिर्न स्यात्। सम्बन्धस्यागृहीतत्वात्।
स्यादेतद् (1) अदृश्यमपि तद्वाक्यमिन्द्रियवत् सन्निधिमात्रेण प्रतीति जनयति। प्रतीत्यन्यथानुपपत्या च वाक्यकल्पनेत्यत आह।
सन्निधिमात्रेण वाक्यस्य प्रतीतिजननेऽभ्युपगम्यमाने। इन्द्रिया दिववव्युत्प