________________
७. अपौरुषेय-चिन्ता
४६१
मस्त्यन्यद्वेति स (? श) क्यमवसातुम् (1) आकारान्तरवद् (1) अन्यासंभवि कार्य गमकमिति चेत् (।) स्याद् यदि तेषु वर्णेषु सत्स्वपि तत्कायं न स्यात् ।
न भवति। तेषामविशेषेपि पदवाक्यान्तरे अभावादिति चेत् (1) न (1) तेषामविशेषासिद्धः (1) अविशेषः प्रत्यभिज्ञानात् सिद्ध इति चेत् (1) न (1)
वाक्यप्रतिभासं बुद्धः पश्यामः। द्वितीयवर्णप्रतिभासवत्। यथा दकारे प्रतिभासमाने तत्समानकालमेव द्वितीयो वर्णो न प्रतिभासते। तद्वन्न पदवाक्यं प्रतिभासते। न चाप्रतिभासमानं ग्रहणे बुद्धौ ग्राह्यतयेष्टमुपलब्धिलक्षणप्राप्तं सदस्तीति शक्यमवसातुं। तथा वर्णेभ्योन्यद् वेति शक्यमवसातुं । न चेति सम्बन्धः। अस्तित्वे निषिद्धेन्यत्त्वमपि निषिद्धमेव। तथापि द्वयोरुपादानमत्यन्तसत्त्वप्रतिपादनार्थ। आकारान्तवत्। यथैकस्मिन्नाकारे भासमाने तत्राप्रतिभासमानं दृश्यमाकारान्तरमन्यन्नास्ति तद्वत्। __ अन्यासम्भवीत्यादि (1) अन्येषु वर्णेष्वसम्भवि । अर्थप्रत्यायनकार्यलक्षणं कार्यव्यतिरिक्तस्य पदवाक्यस्य गमकमिति चेत्। तथा ह्यप्रतिपत्तिर्देवदत्तादिपदवाक्येषु दृष्टा। न चेयम्वर्णेभ्यस्तेषां प्रत्येकमनर्थकत्वात्। एकवर्णकालेऽपरवर्णाभावेन सामस्त्याभावाच्चातोवगम्यतेऽस्ति तत्पदवाक्यं यत इयमर्थप्रतीतिर्भवतीति।
स्यादित्यादिना प्रतिविधत्ते। स्याद् वर्णेभ्योऽर्थान्तरं पदादि। यदि तेषु वर्णेषु सत्स्वपि तदर्थप्रतीतिलक्षणं कार्यन्न स्यात् । यावान् वर्णसमुदायोर्थप्रतिपादनाय संकेतितस्तावतो यद्यर्थप्रतीतिर्न स्यात् स्यादेतत् । यावता भवत्येव । तदुक्तं (।)
नान्यथानपपत्तिस्तु भवत्यर्थमति प्रति।
तदेवास्यानिमित्तं स्याज्जायते यदनन्तरमिति। (स्फोट ०६५) न भवतीत्यादि परः। न भवति वर्णेभ्योर्थप्रतीतिः। 4 किं कारणं (1) तेषाम्वर्णानामविशेषेपि पदवाक्यान्तरेर्थप्रतीतेरसम्भवात्। यदि हि वर्णेभ्योर्थप्रतीतिः स्यात् तदा सर इत्यस्मिन् पदे यादृश्यर्थप्रतीतिस्तादृश्येव रस इत्यत्रापि स्याद् उभयत्र वर्णानान्तुल्यत्वात्। एवं वाक्येपि सदृशवणे बोद्धव्यं । न च भवति। तस्मान्न वर्णेभ्योर्थप्रतीतिलक्षणं कार्यमिति।
नेत्यादिना परिहरति। तेषाम्वर्णानां वाक्यान्तरेष्वविशेषासिद्धः । तथा हि य एकत्र वाक्ये वर्णा न त एव वाक्यान्तरेषु पुरुषप्रयत्नभेदेन वर्णानां प्रतिवाक्यम्भिन्नानामेवोत्पत्तेः।