________________
164b
४६०
प्रमाणवार्तिकस्ववृत्ति टीका ( १।२५० )
सिद्धिप्रसंगात् । भेदानुपलक्षणाच्च वैदिकवर्णासिद्धिः प्रत्यभिज्ञानादप्रतिपत्तिप्रसंगादनभ्युपगमाच्च । तेषां चापौरुषेयत्वप्रसाधने ते तुल्याः सर्वत्रेति किमनेन परिशेषितं । तथा च सर्वो व्यवहारो पौरुषेयो न च सर्वोऽवितथ इति व्यर्थः परिश्रमः ।
अथ वाक्यमपौरुषेयमिष्टं ( 1 )
वाक्यन्न भिन्नं वर्णेभ्यो विद्यतेऽनुपलंभनात् ॥२५०॥
न हि वयं देवदत्तादिपदवाक्येषु दकारादिप्रतिभासं मुक्त्वान्यं प्रतिभासं बुद्धेः पश्यामो द्वितीयवर्णप्रतिभासवत् । न च प्रतिभासमानं ग्रहणे ग्राह्यतयेष्ट
किन्तर्हि ( 1 ) यथा वैदिका अकारादयोऽभिन्नास्तथा लौकिका अपि । एकत्वेन प्रत्यभिज्ञायमानत्वात् । सत्यपि प्रत्यभिज्ञाने यदि लौकिकेभ्यो वैदिकानां वर्णानां भेद इष्यते । तदा भेदेपि । ततः प्रत्यभिज्ञानाद् वैदिकानामकारादीनां प्रत्युच्चारणं यदेकत्वन्तस्यासिद्धिप्रसंगात् । किं कारणं (1) प्रत्यभिज्ञाविशेषात् । लौकिकवैदिकवर्णभेदे दृष्टस्य प्रत्यभिज्ञानस्य वैदिकेषु वर्णेष्वविशेषात् । एकत्वव्यभिचारिणः प्रत्यभिज्ञानात् कथम्वैदिकानामेकत्वं सिध्यतीत्यर्थः । भेदानुपलक्षणाच्च वैदिकवर्णासिद्धिः । लौकिकवैदिकयोर्भेदानुपलक्षणात् ।
अथ स्याद् वैदिकेषु वर्णेष्वेकत्वनिमित्तत्वात् प्रत्यभिज्ञानं प्रमाणमेवान्यत्र तु सादृश्येन भ्रान्तत्वादप्रमाणमित्यत आह । प्रत्यभिज्ञानादप्रतीतिप्रसङ्गादिति । यद्यन्यत्राप्रमाणं घटादावपि तर्हि प्रत्यभिज्ञानाद् क्षणिकत्वाप्रतिपत्तिप्रसङ्गात् । अन्यत्त्वादेव । भवद्भि र्मी मां स कैल्लौकिकवैदिकवर्णभेदानभ्युपगमाच्च ।. तेषाञ्च वर्णानामपौरुषेयत्वसाधनेभ्युपगम्यमाने ते वर्णाः सर्वत्र लोके वेदे च तुल्या इति किमनेन मी मां स के नैवमपौरुषेयत्वं साधयता परिशेषितं परित्यक्तम्वर्णजातं यत् पौरुषेयं स्यात् । तथा वै लौकिकवैदिकवर्णानामपौरुषेयत्वे सति सर्वः शाब्दो व्यवहारो लौकिको वैदिकश्चापौरुषेयो न च सर्वोऽवितथो न च सर्वः सत्त्यार्थः । अपौरुषेयत्वेपि वितथार्थस्य सम्भवात् । इति हेतोर्व्यर्थः परिश्रमोऽपौरुषेयत्वकल्पनायाः
( २ ) अथेत्यादिना
द्वितीयपक्षोपन्यासः । अथ तदसत् । तथा हि वाक्यन्न भिन्नस्वर्णेभ्यो विद्यते ।
वाक्यमपौरुषेयमिष्टं ।
किं कारणं । दृश्यस्यानु
पलम्भनात् ।
न हीत्यादिना व्याचष्टे । न हि वयन्देववत्तादिपदवाक्येषु । देवदत्तादिपदेषु वाक्येषु च वकारा- वीनां वर्णानां यः प्रतिभासस्तं मुक्त्वाऽन्यवर्णात्मकं पद