________________
७. अपौरुषेय-चिन्ता
४५६
यथेष्टन्तु समारोपापवादाभ्यां न रु क्त मी मां स कादयो वेदवाक्यानि विशसन्तो वृश्यन्ते (1) न च तेाः तेषां न घटन्ते (1) समयप्राधान्यादर्थनिवेशस्यैकस्य वाक्यस्यानेक (र्थ) विकल्पसंभवात् (1) प्रकृतिप्रत्ययानामनेकार्थपाठाद् () रूढरप्येका-. न्तेनाननुमतेररूढशब्दबाहुल्यात् (1) तदर्थस्य पुरुषोपदेशापेक्षणात् । तदुपदेशस्य तदिच्छावृत्तेरनिर्णय एव वाक्यार्थेषु ।
(ग) वर्णवाक्यनित्यत्वनिरास: अपि चायमपौरुषेयत्वं साधयन् वर्णानाम्वा साधयेद् वाक्यस्य वा। तत्र (1) अन्याविशेषाद् वर्णानां साधने किं फलं भवेत् । न हि लोकवेदयो ना वर्णाः भेदेपि च प्रत्यभिज्ञानाविशेषात् तत एकत्वा
किं कारणम् (1) अर्थनिवेशस्यार्थवाचकत्वेन प्रवर्तनस्य समयप्राधान्यात् । संकेतप्रतिबद्धत्वात्। एकस्यापि वाक्यस्य यथासमयमनेकार्थविकल्पसम्भवात संशय एव । प्रकृतिप्रत्ययानुसारेण च वेदवाक्यानां व्याख्यानात् । तेषां च नियतार्थत्वान्न वेदवाक्येष्वनेकार्थविकल्पसम्भव इत्यपि मिथ्या। किं कारणं (1) प्रकृतिप्रत्ययानामनेकार्थपाठसम्भवात्। एकापि हि प्रकृतिरनेकेष्वर्थेषु पठ्यते। तथा प्रत्ययोपीति (1) तदवस्थ एव यथाभिप्रायमर्थसंस्कारभेदात् संशयः ।
स्यादेत'द् (1) रुढिमाश्रित्य वेदार्थव्याख्यानात् प्रकृतिप्रत्ययानामनेकार्थ- 164a पाठेपि न संशय इत्यप्यसत्। कि कारणं (1) रुढेरप्यकान्तेन स्वयमेवाननुमतेरनङ्गीकरणात्। एतदेव कुतः। अरूढशब्दबाहुल्यात् । अरूढा एव ये लोके • शब्दास्ते वेदे बाहुल्येन दृश्यन्ते। तद्यथा जर्भुराण'प्रभृतयः। ततो न तत्र रूढिशब्दान्निर्णयः। तत्र तदर्थस्यारूढशब्दार्थस्य निर्णये व्याख्यातृपुरुषोपदेशापेक्षणात्। तदुपवेशस्य च पुरुषोपदेशस्य च। तदिच्छानुवृत्तेः पुरुषेच्छानवृत्तेरनिर्णय एव वेदवाक्यार्थेषु । (२४६)
अपि चायं वे द वा द्यपौरुषेत्वं साधयन् वर्णानाम्बा साधयेद् वाक्यस्य वा। वाक्यविकल्पेनैव पदस्याप्यभिधानं द्रष्टव्यं ।
(१) वर्णविकल्पमधिकृत्याह। तत्रेत्यादि। अन्याविशेषादिति (1) लौकिकेभ्यो वर्णेभ्यो वैदिकानामविशेषात्। वर्णानामपौरुषेयत्वसाधने किम्फलम्भेत् (1) नैव किञ्चित् ।
न हीत्यादिना व्याचष्टे । यस्मान्न हि लौकिकवैदिकवाक्ययो ना वर्णाः। .
1 In the Vedic mantras.